TBD.
निन्दाऽदिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु वुञ् प्रतयो भवति। पञ्चम्यर्थे प्रथमा। क्लिश उपतापे, क्लिशू विबाधने। द्वयोरपि ग्रहणम्। निन्दकः। हिंसकः। क्लेशकः। खादकः। विनाशकः। परिक्षेपकः। परिराटकः। परिवादकः। व्याभाषकः। असूयकः। ण्वुलैव सिद्ध वुञ्विधानं ज्ञापनार्थं, ताच्छीलिकेषु वा ऽसरूपन्यायेन तृजादयो न भवन्ति इति।
TBD.
–
928 निन्दहिंस। निन्द, हिंस, क्लिश, खाद, विनाश, परिक्षिप, परिरट, परिवादि, व्याभाष, असूय एषां दशानां द्वन्द्वः। पञ्चम्यर्थे प्रथमेति। सौत्रं पुंस्त्वमेकवचनं वेति भावः। विनाशेति– विपूर्वस्य नशेण्र्यन्तस्य भाविना णिलोपेन निर्देशः। शकारादकार उच्चारणार्तः। केचित्तु `विनाशी'ति ण्यन्तमेव पठन्ति। परिवादीति– तु ण्यन्तमेव। असूयेति– कण्ड्वदियगन्तः। इत्यादीति। क्लेशकः, खादकः,विनाशकः, परिक्षेपकः, परिराटकः, परिवादकः, व्याभाषकः, असूयकः। ननु `असूयो वु'ञिति असूयतेरेव वुञ्विधीयतां , न तु निन्दादिभ्योऽपि, तेषां ण्वुलैव सिद्धेः। लित्स्वरञित्स्वरयोस्तु नास्ति विशेषः, उभयथाप्याद्युदात्तत्वात्। असूयतेस्तु ण्वुलि `लिती'ति प्रत्ययात्पूर्वं उकार उदात्तः। वुञि तु `ञ्नित्यादिर्नित्य'मिति धातोरकार उदात्त इति विशेषः। तस्मादसूयतेरेव वुञ्विधिरिति युक्तमित्यत आह– ण्वुला सिद्धे इति। तृजादयो नेतीति। तच्छीलादिषु वासरूपविदिस्त्तवे हि तद्विषये तृनि प्राप्ते वुञ्विधिरर्थवान्। अतस्तच्छीलादिषु वासरूपविधिर्न प्रवर्तत इति भावः। इदं च प्रायिकम्। तत्फलं तु ऊत्पूर्वान्मदेरलङ्कृञादिसूत्रेण इष्णुजुक्तो, वासरूपविधिना घिनुणपीति मूल एवानुपदमुक्तम्।
762 निन्दहिंस। इह सूत्र विनाशेति विपूर्वस्य नशेण्र्यन्तस्य पाठो निर्विवाद एव। असूयतिः कण्ड्वादियगन्तः, निन्दादीनामसूयान्तानां समाहारद्वन्द्वे सौत्रं पुस्त्वम्। स्यादेतत्– असूयतेरेव वुञ् विधेयो नेतरेभ्यः निन्दादीनां निन्दादीनां ण्वुलैव सिद्धेः। न हि तत्र लित्स्वरनित्स्वरयोर्विशेषोऽस्ति, उभयथाप्याद्युदात्तत्वात्। असूयतेस्तु ण्वुलि `लिती'ति प्रत्ययात्पूर्वमुदात्तं, वुञि तु `ञ्नित्यादिर्नित्य'मित्यादिरुदात्त इति विशेषः। तत्राह –ण्वुलेति। तृजादयो नेति। नेदं ण्वुल्विषयकमेव ज्ञापकं किंतु सामान्यतः प्रत्ययमात्रविषयकमित्यर्थः।
TBD.