Table of Contents

<<3-2-144 —- 3-2-146>>

3-2-145 प्रे लपसृद्रुमथवदवसः

प्रथमावृत्तिः

TBD.

काशिका

प्रे उपपदे लपादिभ्यः घिनुण् भवति। प्रलपी। प्रसारी। प्रद्रावी। प्रमाथी। प्रवादी। प्रवासी। वसः इति वस निवासे इत्यस्य ग्रहणं नाच्छादनार्थस्य, लुग्विकरणत्वात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

927 प्रे लप। लप, सृ, द्रु, मथ, वद, वस्, एषां षण्णां द्वनद्वात्पञ्चमी। प्रे उपपदे एभ्यो घिनुण् स्यात्ताच्छील्यादिष्वित्यर्थः।

तत्त्वबोधिनी

761 प्रे लप। रप लप व्यक्तायां वाचि। प्रमाथीति। मथे विलोडने।

Satishji's सूत्र-सूचिः

TBD.