TBD.
स्तम्ब कर्ण इत्येतयोः सुबन्तयोरुपपदयोर् यथासङ्ख्यं रमिजपोः धात्वोः अच्प्रत्ययो भवति। रमेः अकर्मकत्वात्, जपेः शब्दकर्मकत्वात् कर्म न सम्भवति इति सुपि इत्येतदिह अभिसम्बध्यते। हस्तिसूचकयोरिति वक्तव्यम्। स्तम्बे रमते इति स्तम्बेरमः हर्ती। कर्णे जपति इति कर्णेजपः सूचकः। हस्तिसूचकयोः इति किम्? स्तम्बे रन्ता। कर्णे जपिता मशकः।
TBD.
–
742 स्तम्बकर्णयोः। रम जप अनयोरकर्मकत्वात्कर्मणीति न संबध्यते। जपेः शब्दोच्चारणार्तकस्य धात्वर्थोपसङ्ग्रहादकर्मकत्वं बोध्यम्। दर्भादितृणनिचयः - स्तम्बः। सूचकः - पिशुनिः। हस्तिसूचकयोः किम् ?। स्तम्बे रन्ता गौः कर्णे जपिता गुरुः, मशको वा।
619 * हस्तिसूचकयोरिति वक्तव्यम्। हस्तसूचकयोरिति। अन्यत्र तु स्तम्बे रन्ता। कर्णे जपिता।
TBD.