Table of Contents

<<3-2-135 —- 3-2-137>>

3-2-136 अलङ्कृञ्निराकृञ्प्रजनौत्पचौत्पतौन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्

प्रथमावृत्तिः

TBD.

काशिका

अलङ्कृञादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययो भवति। अलङ्करिष्णुः। निराकरिष्णुः। प्रजनिष्णुः। उत्पचिष्णुः। उत्पतिष्णुः। उन्मदिष्णुः। रोचिष्णुः। अपत्रपिष्णुः। वर्तिष्णुः। वर्धिष्णुः। सहिष्णुः। चरिष्णुः। अलङकृञो मण्डनार्थाद् युचः पूर्वविप्रतिषेधेनेष्णुज् वक्तव्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

918 अलङ्कृढञ्। अलङ्कृञ्, निराकृञ्, प्रजन, उत्पच, उत्पत, उन्मद, रुचि, अपत्रप, वृतु, वृधु, सह, चर एषां द्वादशनां द्वन्द्वात्पञ्चमी। एभ्यस्तच्छीलादिषु कर्तृषु इष्णुच् स्यात्। इत्यादीति। निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुः, उत्पतिष्णुः, उन्मदिष्णुः, रोचिष्णुः, अपत्रपिष्णुः, वर्तिष्णुः, वर्धिष्?णुः, सहिष्णुः, चरिष्णुः।

तत्त्वबोधिनी

753 अलङ्कृञ्। कृञिति डुकृञ् करण इत्यस्यैव ग्रहणं न तु कृञ् हिंसायामित्यस्य , `प्रसिद्धाऽप्रसिद्धयोः प्रसिद्धस्यैव ग्रहण'मिति न्यायात्। निराङ्पूर्वोऽपि कृञ् स एव। प्रपूर्वो जनी प्रादुर्भावे। इह डुपचष् पाके, पत्लृ गतौ, मदी हर्षे, एते त्रयोऽपि उत्पूर्वाः पठ\उfffद्न्ते। तत्र `उदः पचपतमद' इत्येव वक्तव्ये प्रत्येकमुत्पूर्वसय् पाठ उपसर्गान्तरनिवृत्त्यर्थस्तेन समुत्पतिष्णुरित्यादि न भवतीत्याहुः। रुच दीप्तौ। अपपूर्वः त्रपूष् लज्जायाम्, वृतु वर्तने, वृधु वृद्धौ,षह मर्षणे,चर गतौ। इत्यादीति। आदिशब्दग्राह्रास्तु निराकरिष्णुः, प्रजनिष्णुः, उत्पचिष्णुः,उत्पत्तिष्णुः, उन्मदिष्णुरिति। `उत्पतिष्णूसहिष्णू च चेरतुः खरदूषणौ' इति भट्टिः। कालिदासोऽप्याह– `फलानामुत्पत्तिष्णवः'इति। केचित्तुः– पत इत स्थाने दान्तं सूत्रे पठित्वा पद गतावित्यस्मात्प्रत्ययमाहुः। उन्मदिष्णुः, रोचिष्णुः, अपत्रपिष्णुः, वर्तिष्णुः, चरिष्णुः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः अलंकृञादिभ्य इष्णुच् स्यात् तच्‍छीलादिषु कर्तृषु । Following any one of the verbal roots listed below, the affix ‘इष्णुच्’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill -
(i) अलम् (ref 1-4-64) + √कृ (डुकृञ् करणे ८. १०)
(ii) निर् + आङ् (आ) + √कृ (डुकृञ् करणे ८. १०)
(iii) प्र + √जन् (जनीँ प्रादुर्भावे ४. ४४)
(iv) उद् + √पच् (डुपचँष् पाके १. ११५१)
(v) उद् + √पत् (पतॢँ गतौ १. ९७९)
(vi) उद् + √मद् (मदीँ हर्षे ४. १०५)
(vii) √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७)
(viii) अप + √त्रप् (त्रपूँष् लज्जायाम्)
(ix) √वृत् (वृतुँ वर्तने १. ८६२)
(x) √वृध् (वृधुँ वृद्धौ १. ८६३)
(xi) √सह् (षहँ मर्षणे, # १. ९८८)
(xii) √चर् (चरँ गत्यर्थ: १. ६४०)

उदाहरणम् – सहते तच्छील:/तद्धर्मा/तत्साधुकारी = सहिष्णु: ।

सह् + इष्णुच् 3-2-136
= सह् + इष्णु 1-3-3, 1-3-9
= सहिष्णु । ‘सहिष्णु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.