Table of Contents

<<3-2-131 —- 3-2-133>>

3-2-132 सुञो यज्ञसंयोगे

प्रथमावृत्तिः

TBD.

काशिका

यज्ञेन संयोगः यज्ञसंयोगः। यज्ञसंयुक्ते ऽभिषवे वर्तमानात् सुनोतेर् धातोः शतृप्रत्ययो भवति। सर्वे सुन्वन्तः। सर्वे यजमानाः सत्रिण उच्यन्ते। संयोगग्रहणं प्रधानकर्तृप्रतिपत्त्यर्थम्। याजकेसु मा भूत्। यज्ञसंयोगे इति किम्? सुनोति सुराम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

914 सुञो यज्ञ। यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेः शतृप्रत्यय इत्यर्थः। संयोगग्रहणं यज्ञस्वामिपरिग्रहार्थम्। तेन याजकेषु न भवति। तत्र सुन्वन्नित्येकवचनान्तं दशपूर्णमासज्योतिष्टोमादिविषयम्, एककर्तृकत्वात्। बहुवचनान्तं तु सत्रविषयमेव, तत्र ऋत्विजामपि यजमानत्वादिति मत्वा आह– सर्वे सुन्वन्त इति।

तत्त्वबोधिनी

750 सुञो यज्ञसंयोगे। सुनोतेः शतृप्रत्ययः स्याद्यज्ञेन संयुज्यमाने वृत्तिश्चेत्। नन्विह `सुञो यज्ञे' इत्येवास्तु, यज्ञविषयकश्चेत्सुनोत्यर्थ इति व्याख्यायां सुरां सुनोतीत्यादेव्र्यावर्तयितुं शक्यत्वात्। अत्राहुः– संयोगग्रहणं प्रधानकर्तृसंप्रत्ययार्थं,तेन यजानादन्यत्र न भवतीति। एवं चाऽप्रधाने कर्तरि `लटः शतृशानचौ' इत्यनेनाऽपि न भवति, संयोगग्रहणसामथ्र्यादिति हरदत्तः। `यः सुन्वन्तमवती'त्यादीनामेकवचनान्तानां यजमानपरत्वसंभवेऽपि बहुवचनान्तानां तु न संभवति, एकस्मिन्यागे एकस्यैव यजमानत्वादित्याशङ्क्य यागविशेषे तु संभवतीति दर्शयितुमुदाहरति–सर्वे सुन्वन्त इत्यादि। सत्रयागे हि बहवो यजमानास्त एवं ऋत्विजां कर्म सोमाभिषवनं कुर्वन्तीति `सुन्वन्त' इत्यादिबहुवचनान्तस्यापि यजगानपरत्वं संभवतीति भावः।

Satishji's सूत्र-सूचिः

TBD.