TBD.
लक्ष्यते चिह्न्यते तल् लक्षणम्। जनको हेतुः। धात्वर्थविशेषणं चैतत्। लक्षणे हेतौ च अर्थे वर्तमनाद धातोः परस्य लटः शतृशानचौ आदेशौ भवतः, तौ चेल् लक्षणहेतू क्रियाविषयौ भवतः। लक्षणे शयाना भुञ्जते यवनाः। तिष्ठन्तो ऽनुशासति गणकाः। हेतौ अर्जयन् वसति। अधीयानो वसति। लषणहेत्वोः इति किम्? पचति, पठति। क्रियायाः इति किम्? द्रव्यगुणयोर् मा भूत्। यः कम्पते सो ऽश्वत्थः। यदुत्प्लवते तल् लघु। यन् निषीदति तद् गुरु। लक्षणहेत्वोः इति निर्देशः पूर्वनिपातव्यभिचारलिङ्गम्।
TBD.
–
905 लक्षणहेत्वोः। लक्ष्यते ज्ञाप्यतेऽनेनेति लक्षणं = ज्ञापकम्। तदाह– क्रियायाः परिचायके इति। धात्वर्थस्य लक्षणत्वे हेतुत्वे च द्योत्ये इति यावत्। कर्तैव प्रत्ययार्थः। शयाना भुञ्जते यवना इति। अत्र भोजनकालीनं शयनं भोक्तुर्यवनत्वसूचकम्। हेतावुदाहरति – अर्जयन्वसतीति। अर्जनाय वसतीत्यर्थः।हेतावुदाहरणान्तरमाह– हरिं पश्यन्निति। हरिदर्शनेन संसारदुःखान्मुच्यते इत्यर्थः। ननु धनाद्यार्जनस्य वाससाध्यतया कथं तस्य वासहेतुत्वमित्यत आह– हेतुः फलं कारणं चेति। इष्टसाधनताज्ञानस्य वासप्रवृत्तौ हेतुतया इष्टस्यार्जनस्यापि वासहेतुमिति भावः। प्रपीयमाण इति। अत्र भिन्नपदस्थत्वात् कथं णत्वमित्यत आह– कृत्यच इति।
745 लक्षणहेत्वोः। लक्ष्यतेऽनेनेति लक्षणं= परिचायकम्। शयाना इति। शीङ आत्मनेपदित्वात्परस्य लटः शानच्। अत्र शयनं लक्षणं = चिह्नं यवनकर्तृकभोजनस्य, न तु फलं,नापिकरणमिति हेत्वपेक्षया लक्षणस्य पृथङ्निर्देशः। अर्जयन्निति। अर्ज प्रतियत्ने चुरादिः। अर्जनार्थो वास इत्यर्थः। हरिमिति। हरिदर्शनं मुक्तौ कारणमित्यर्थः।
वृत्तिः क्रियाया: परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लट: शतृशानचौ स्त: । ‘शतृँ’/'शानच्’ replace ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action.
उदाहरणम् (लक्षणे) – शयाना भुञ्जते यवना: ।
उदाहरणम् (हेतौ – फले) – अर्जयन्वसति ।
उदाहरणम् (हेतौ – कारणे) – हरिं पश्यन्मुच्यते ।