Table of Contents

<<3-2-119 —- 3-2-121>>

3-2-120 ननौ पृष्टप्रतिवचने

प्रथमावृत्तिः

TBD.

काशिका

अनद्यतने परोक्षे इति निवृत्तम्। भूतसामान्ये विधिरयम्। ननुशब्दे उपपदे प्रश्नपूर्वके प्रतिवचने भूते ऽर्थे लट् प्रययो भवति। लुङो ऽपवादः। अकार्षीः कटं देवदत्त? ननु करोमि भोः। अवोचस् तत्र किंचिद् देवदत्त? ननु ब्रवीमि भोः। पृष्टप्रतिवचने इति किम्? ननु अकार्षीत् माणवकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

604 ननौ पृष्ट। निवृत्तमिति। व्याख्यानादिति भावः। अकार्षीः किमिति प्रश्नः। ननु करोमीत्युत्तरम्। अकार्षमित्यर्थः। नन्विति संबोधने।

तत्त्वबोधिनी

496 ननौ। पृष्टस्यप्रतिवचनमिति विग्रहः। समाहारद्वन्द्वे तूभयत्र स्यात्,इष्यते च प्रतिवचने एव लट्। तदाह– ननु करोमीति। न च पृष्टग्रहणं व्यर्थं यावता प्रश्नपूर्वकमेव प्रतिवचनं भवतीति वाच्यम्, विरुद्धमपि वचनं प्रतिवचनं , चवनाभिमुख्यमपि प्रतिवचनमिति पृष्टग्रहणं कर्तव्यमिति कैयटे स्थितत्वात्।

Satishji's सूत्र-सूचिः

TBD.