Table of Contents

<<3-2-117 —- 3-2-119>>

3-2-118 लट् स्मे

प्रथमावृत्तिः

TBD.

काशिका

भूतानद्यतनपरोक्षे इति वर्तते। स्मशब्दे उपपदे भूतानद्यतनपरोक्षे लट् प्रत्ययो भवति। लिटो ऽपवादः। नडेन स्म पुराधीयते। ऊर्णया स्म पुराधीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

766 लिटोऽपवादः. यजति स्म युधिष्ठिरः..

बालमनोरमा

602 लट् स्मे। `स्मे'त्यव्ययम्। तद्योगे लिड्विषये लट् स्यादित्यर्थः। यजति स्मेति। स्मशब्दो भूतकालद्योतकः।

तत्त्वबोधिनी

495 लट् स्मे। `स्मे' इत्यव्ययं भूतकालद्योतकम्।

Satishji's सूत्र-सूचिः

TBD.