Table of Contents

<<3-2-113 —- 3-2-115>>

3-2-114 विभाषा साकाङ्क्षे

प्रथमावृत्तिः

TBD.

काशिका

यदि इति न अनुवर्तते। उभयत्र विभाशेयम्। अभिज्ञावचने उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति, साकाङ्क्षश्चेत् प्रयोक्ता। लक्ष्यलक्षणयोः सम्बन्धे प्रयोक्तुराकाङ्क्षा भवति। अभिजानसि देवदत्त कश्मीरेषु वत्स्यामस् तत्र उदनं भोक्ष्यामहे। अभिजानासि देवदत्त मगधेषु वत्स्यामः, तत्र उदनं भोक्ष्यामहे। यदि खल्वपि अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः, यत् तत्र उदनं भोक्ष्यामहे। अभिजानसि देवदत्त यत् कश्मीरेष्ववसाम, यत् तत्र उदनम् अभुञ्ज्महि। वासो लक्षणं, भोजनं लक्ष्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

599 विभाषा। उक्तविषये इति। अभिज्ञाबोधिन्युपपदे इत्यर्थः। लक्ष्यलक्षणभावेनेति। ज्ञाप्यज्ञाप्यकभावेनेत्यर्थः। अत्र व्याख्यानमेव शरणम्। स्मरसीति। पूर्वं वने अवसाम, तत्र वने गा अचारयामेति यत्तत् हे कृष्ण ! स्मरसीत्यर्थः। अत्र यदित्यस्य गम्यत्वेऽपि तस्य प्रयोगाऽभावान्न यद्योगः। वासो लक्षणमिति। `चारणस्ये'ति शेष-। उभयत्रापि लृड्विकल्पः, अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः। न च यद्योग एव `विभाषा साङ्काक्षे' इति विकल्पोऽस्त्विति भ्रमितव्यं, `यदि च अयदि चाऽयं विकल्प' इति भाष्यात्तदाह– यच्छब्दयोगेऽपीति। `परोक्षे लि'डिति प्राग्व्याख्यातमपि विशेषविवक्षया स्मार्यते। अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वाऽभावात्कथमस्य लिट उत्तमपुरुष इत्यत आह– उत्तमपुरुषे चित्तेति। सुप्त इति। सुप्तत्वादहं विललापेत्यर्थः। अत्र स्वापाच्चित्तविक्षेपः। बहु जगदेति। मत्तत्वात्तस्य पुरस्तादहं बहु जगदेत्यर्थः। अत्र उन्मादाच्चित्तविक्षेपः। आदिना व्यासङ्गसङ्ग्रहः। अत्यन्तापह्नवे इति। अपरोक्षार्थमिदम्. कलिङ्गेष्ववात्सीरिति। अतस्त्वं न सहवासयोग्य इति प्रश्नः। `अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च। तीर्थयात्रां विना यातः पुनः संस्कारमर्हति।' इति वचनादिति भावः। नाहं कलिङ्गान् जगामेत्युत्तरम्। कलिङ्गशब्दस्य जनपदविसेषवाचित्वाद्बहुवचम्. अत्र तद्देशगमनोत्तरकालिकववासविषयकप्रश्ने कारणीभूतगमनस्यैवापलापादत्यन्तापह्नवो ज्ञेयः। कलिङ्गेष्ववात्सीरित्यत्र `अकर्मकधातुभिर्योगे देशः कालो भावः' इति कर्मसंज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकारे निरूपितम्।

तत्त्वबोधिनी

493 वासो लक्षणमिति। प्रसिद्धत्वाज्ज्ञापकमित्यर्थः।चारणं लक्ष्यमिति। सहसा बुद्ध्यनारोहाज्रज्ञाप्यम्। पक्षे लङिति। वने अवसाम, गा अचारयाम। यच्छब्दयोगेऽपीति। अतएव `न यदी'ति योगात्पूर्वं `विभाषा साकाङ्क्षे' इतिन कृतमिति भावः। अपह्नवोऽपलापस्तत्र आत्यन्तिकत्वं नामैवं यदभियुक्तस्तद्धेतोरप्यपह्नुतिः। नाहमित्यादि। कलिङ्गो नाम निषिद्धो देशः, `अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च। तीर्थयात्रां विना गत्वा पुनः संस्कारमर्हति' इति स्मरणात्, तस्मिन्देशे त्वया गत्वा चिरं स्थितमिति केनचित्कश्चिदुक्तः सन्नाह–`नाहं कलिङ्गाञ्जगामे'ति। नकेवलमवस्थानमेव निषिध्यते किं तर्हि तद्धेतुभूतं गमनमपीति भवत्यत्यन्ताऽपह्नवः। यदा तु कलिङगेष्वगम इत्युक्तः सन्गमनमेवापलपति न तदात्यन्तापह्न इति लङेव भवति, `न कलिङ्गेष्वगच्छ' मिति।

Satishji's सूत्र-सूचिः

TBD.