Table of Contents

<<3-2-112 —- 3-2-114>>

3-2-113 न यदि

प्रथमावृत्तिः

TBD.

काशिका

यच्छब्दसहिते अभिज्ञावचन उपपदे लृट् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिद्यते। अभिजानासि देवदत्त यत् कश्मीरेष्ववसाम। वासमात्रं स्मर्यते, न तु अपरं किंचिल् लक्ष्यते। तेन उत्तरसूत्रस्य न अयं विषयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

598 न यदि। `यदी'ति सप्तमीति मत्वाह— यद्योगे इति। उक्तं नेति। `अभिज्ञावचने' इति लृण्न भवतीत्यर्थः। अभिजानासीति। वने अभुञ्जमहीति यत्तस्मरसीत्यर्थः।

तत्त्वबोधिनी

492 न यदि। लृटः प्रतिषेधे उत्सर्गो लङ्।

Satishji's सूत्र-सूचिः

TBD.