TBD.
उपेयिवाननाश्वाननूचान इत्येते शब्दा निपात्यन्ते। उपपूर्वादिणः क्वसुः, द्विर्वचनम् अभ्यासदीर्घत्वं तत्सामर्थ्यादेकादेशप्रतिबन्धः, तत्र वस्वेकाजाद्धसाम् 7-2-67 इत्यनेकाच्त्वादिण् न प्राप्नोति, स निपात्यते, अभ्यासस्य श्रवणं धातुरूपस्य यणादेशः। उपेयिवान्। क्रादिनियमात् प्राप्तश्च वस्वेकाजाद्धसाम् 7-2-67 इति प्रतिषिद्धः, स पुनरिट् प्रतिप्रसूयते, तेन अजादौ न भवति। उपेयुषः। उपेयुषा। न च अत्र उपसर्गास् तन्त्रम्, अन्योपसर्गपूर्वान् निरुपसर्गाच् च भवत्येव। समीयिवान्। ईयिवान्। वावचनानुवृत्तेश्च पूर्ववल् लुडादयो ऽपि भवन्ति। उपागात्। उपैत्। उपेपाय। अश्नातेर् नञ्पूर्वात् क्वसुर् निपत्यते, इडभावश्च। अनाश्वान्। नाशीत्। नश्नात्। नाश। वचेरनुपूर्वात् कर्तरि कानज् निपात्यते। अनूचानः। अन्ववोचत्। अन्वब्रवीत्। अनूवाच।
TBD.
–
901 उपेयिवान। इडिति। उपपूर्वादिण्धातोर्लिटः क्वसुः, नित्यत्वाद्द्वित्वम्। वलादिलक्षण इट् `नेड्वशि कृती'ति प्रतिषिद्धः, स तावत्कादिनियमात्पुनरुत्थितः। पुनश्च `वस्वेकाजाद्धसा'मिति `सूत्रेण एकाच्श्च आदन्ताच्च घसेश्च परस्य वसोरिट् स्यान्नान्येभ्य' इत्यर्थकेन द्वित्वनन्तरमनेकाच्त्वात्प्रतिषिद्धः, सोऽयमिट् अनेन निपातनेन प्रतिसूयते इति भाष्ये स्पष्टम्। इटि कृते उत्तरखण्डस्य इकारस्य यण्। अभ्यासस्य दीर्घस्तु न निपात्यते। नन्वत्र अपूर्व इट् निपात्यतामित्यत आह- - उपेयुषीति। उगित्त्वान्ङीपि वसोः संप्रसारणम्। प्रतिसूतो वलादिलक्षण इट् तु न, तन्निमित्तस्य वकारस्य संप्रसारणेन विनाशोन्मुखत्वात्। अत्र अपूर्वस्य इटो निपातने तु अत्रापि इट् स्यादिति भावः। उपेत्यविवक्षितमिति। अत्र व्याख्यानमेव शरणम्। अश्नातेरिति। `अश भोजने' श्नाविकरणः क्र्यादिः, लिटः क्वसुः, द्वित्वम्, `अत आदे'रिति दीर्घः, सवर्णदीर्घः, द्वहल्त्वाऽभावान्न नुट्। `अश्नोतेश्चे'त्यपि न नुट्, श्नुविकरणस्थस्यैव तत्र ग्रहणात्। नञ उपपदसमासः। `नलोपो नञः' `तस्मान्नुडची'ति भावः। वचेः कर्तरीति। न तु भावकर्मणोरिति भावः। कानचि यजादित्वात्संप्रसारणं, पूर्वरूपं, सवर्णदीर्घः। `विभाषा गमहने'त्यादि स्पष्टम्।
741 उपेयिवानना। इडिति। वलादिलक्षण एवेट् `नेड्वशि कृती'ति निषिद्धः। क्र्यादिनियमात्पुनः प्राप्तः `वस्वेकाजाद्धसा'मिति सूत्रेण कृतद्वित्वानामेकाचामादन्तानां घसेश्च वसोरिट् स्यान्नान्येषामिति नियच्छता प्रतिषिद्धः, नित्यत्वाद्द्वित्वे कृतेऽनेकाच्त्वात्। न च सवर्णदीर्घेणैकाच्त्वम्। `दीर्घ इणः किती'त्यभ्यासस्य दीर्घे कृते तत्सामथ्र्यात्सवर्णदीर्घाऽभाव इति पक्षाश्रयणात्। स एव वलादिलक्षण इडिह प्रतिप्रसूयते, नाऽपूर्वो विधीयते, तेन संप्रसारणविषये न भवति। अत एवोदाहरति– उपेयुष इति। सति त्विटि तस्य यणादेशे उपेय्युष इति स्यादिति भावः। अविवक्षितमिति। व्याख्यानमेवाऽत्र शरणम्। ईयिवानिति। इणो द्वित्वे सवर्णदीर्घं बाधित्वा आङ्गत्वात् `इणो य'णिति यण् भवति, वसोरिडागमे हि परत्राऽजादिप्रत्ययस्य सत्त्वात्। वचेरिति। वच परिभाषणे इत्यस्माद्ब्राउवो वचेर्वा कर्तरि, न तु भावकर्मणोः। एतच्च निपातनाल्लब्धम्।
TBD.