Table of Contents

<<3-2-107 —- 3-2-109>>

3-2-108 भाषायां सदवसश्रुवः

प्रथमावृत्तिः

TBD.

काशिका

सद वस श्रु इत्येतेभ्यः परस्य लिटो भाषायां विषये वा क्वसुरादेशो भवति। आदेशविधानादेव लिडपि तद्विषयो ऽनुमीयते। उपसेदिवान् कौत्सः पाणिनिम्। तेन मुक्ते यथाप्राप्तं प्रत्यया भवन्ति। उपासदत्। उपासीदत्। उपससाद। अनूषीवान् कौत्सः पाणिनिम्। अन्ववात्सीत्। अन्ववसत्। अनूवास। उपशुश्रुवान् कौत्सः पाणिनिम्। उपाश्रौषीत्। उपाशृणोत्। उपशुश्राव। लुङ्लङ्विषये परस्तादनुवृत्तेः क्वसुर् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

900 भाषायाम्। सद, वस, श्रु एषां द्वन्द्वात्पञ्चमी। पुंस्त्वमेकवचनं चार्षम्। तस्य च नित्यं क्वसुरिति। वाग्रहणं लिटैव संबध्यते, तस्य क्वसुस्तु नित्य इति भाष्ये स्पष्टम्। पक्षे लुङ्, तसय् भूतसामान्ये विहितत्वात्। वाग्रहणाननुवृत्तौ तु भूतसामान्ये लिडयं नित्यं लुङपवादः स्यात्, सरूपत्वात्। अस्य च भूतसामान्ये लिटो न तिङ्, अस्य क्वसोस्तदपवादत्वात्। वासरूपविधिस्तु लोदेशेषु नेति `लिटः कानज्वे'त्यत्र उक्तमिति शब्देन्दुशेखरे विस्तरः। निषेदुषीमिति। निपूर्वात्सदेर्लिटः क्वसुः, द्वित्वम्, `अत एकहल्मध्ये' इत्येत्वाभ्यासलोपौष वसोः संप्रसारणं, पूर्वरूपं, षत्वम्। अध्यूषुष इति। अधिपूर्वाद्वसधातोर्लिटः क्वसुः, याजित्वाद्धातोर्वस्य संप्रसारणम्। पूर्वरूपम्. उस् इत्यस्य द्वित्वं, हलादिशेषः, सवर्णदीर्घः। शसि वसोः संप्रसारणं, पूर्वरूपम्?। शुश्रुवानिति। श्रुधातोर्लिटः क्वसुः। द्वित्वम्।

तत्त्वबोधिनी

740 निषेदुपीमिति। षद्लृ विशरणादौ। `लिटि धतो'रिति द्वित्वे `अत एकहल्मध्ये' इत्येत्त्वाभ्यासलोपौ। `उगितश्चे'ति ङीपि `वसो'रिति सम्प्रसारमए वलादित्वाऽभावान्नेट्। `सदिरप्रते'रिति षत्वम्। पुंसि तु निषेदिवान्। अध्यूषुष इति। वस निवासे अधिपूर्वः। `वचिस्वपी'ति संप्रसारणं। द्वित्वहलादिशेषसवर्णदीर्घाः। ङसि भत्वात्संप्रसारणम्। प्रथमैकवचने तु अध्यूषिवान्।

Satishji's सूत्र-सूचिः

TBD.