TBD.
छन्दसि लिटः क्वसुरादेशः भवति। जक्षिवान्। पपिवान्। न च भवति। अहं सूर्यमुभयतो ददर्श। योगविभाग उत्तरार्थः।
TBD.
832 लिटः कानच् क्वसुश्च वा स्तः. तङानावात्मनेपदम्. चक्राणः..
898 क्वसुश्च। त्रीणीमानि सूत्राणि। अत्र प्रथम सूत्रे भूत इत्यनुवृत्तिमभिप्रेत्य व्याचष्टे– भूतसामान्ये छन्दसि लिडिति। अनद्यतनपरोक्षत्वं छन्दसि न विवक्षितमिति भावः। `लिटः कानज्वे'ति द्वितीयं सूत्रम्। तत्र छन्दसीत्यनुवर्तते, भूते इति च। छन्दसि भूते लिटः कानजादेशः स्यादित्यर्थः। लिड्ग्रहणं लिण्मात्रस्य ग्रहणार्थम्। तेन `परोक्षे लि' डिति यो लिड्विहितस्तस्यापि ग्रहणार्थः। अन्यथा `अनन्तरस्ये'ति न्यायेन प्रकृतस्यैव लिटो ग्रहणं स्यादिति वृत्तौ स्पष्टम्। वाग्रहणं तु पक्षे लिटः श्रवणाअर्थं, वासऽरूपविधिर्लादेशेषु नेति ज्ञापनार्थं वा। तत्प्रयोजनं तु `भाषायां सदवसे'त्यत्र क्वसोरेवानुवृत्त्यर्थः। इमौ कानच्क्वसू आदेशौ छन्दसि भूते लिटः क्वसुश्चादेशः स्यादित्यर्थः। योगविभागस्तु उत्तरसूत्रे क्वसोरेवानुवृत्त्यर्थः। इमौ कानच्क्वसू आदेशौ छान्दसाविति–अत्रैव भाष्यकैटयोः स्पष्टम्। तदाह–तस्येत्यादि, त्रिमुनिमतमित्यन्तम्। `विभाषा पूर्वाह्णाऽपराह्णे'ति सूत्रभाष्ये तु पपुष आगतं पपिवद्रूप्यमिति प्रयुक्तम्। तेन लोकेऽपि क्वचिक्त्वसोः साधुत्वं सूचितम्। तदाह— कवयस्त्विति। तस्थिवांसमिति। स्थाधातोर्लिटः क्वसुः। द्वितीयैकवचने `अत्वसन्तस्ये'ति दीर्घः। उगित्?त्वान्नुम्। अधिजग्मुष इति। अधिपूर्वाद्गमेर्लिटः क्वसुः, आङोयमहने'त्युपधालोपः, शसि वसोः संप्रसारणं, पूर्रूपम् , षत्वम्।
–
वृत्तिः लिटः क्वसुश्च वा स्यात् । The affix लिँट् – prescribed by 3-2-105 छन्दसि लिट् – may optionally be replaced by the affix ‘क्वसुँ’ also (in addition to ‘कानच्’ prescribed by 3-2-106.) Note: As per 1-4-99, the affix ‘क्वसुँ’ is designated as परस्मैपदम्।
उदाहरणम् – प्रातिपदिकम् “जग्मिवस्”/”जगन्वस्” derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).
गम् + लिँट् 3-2-105
= गम् + क्वसुँ 1-3-78, 1-4-99, 3-2-107
= गम् + वस् 1-3-2, 1-3-8, 1-3-9
= गम् गम् + वस् 1-1-56, 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-4-98.
= जम् गम् + वस् 7-4-62, 1-1-50
= जगम् + वस् 7-4-60. The affix ‘वस्’ would take the augment ‘इट्’ by 7-2-35, but 7-2-8 comes in to play.
Example continued under 7-2-8