Table of Contents

<<3-2-102 —- 3-2-104>>

3-2-103 सुयजोर् ङ्वनिप्

प्रथमावृत्तिः

TBD.

काशिका

सुनोतेर् यजतेश्च ङ्वनिप् प्रत्ययो भवति। सुत्वा। यज्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

894 सुयजोर्ङ्वनिप्। पञ्चम्यर्थे षष्ठी। सुनोतेर्यजेश्च ङ्वनिबित्यर्थः। भूते इति। अस्य भूताधिकारस्थत्वादिति भावः। सुत्वा सुत्वानाविति। ङ्वनिपि ङपावितौ , इकार उच्चारणार्थः। ङित्त्वान्न गुणः।

तत्त्वबोधिनी

735 सुयजोर्ङ्वनिप्। सुनोतेरिति। षुञ् अभषवे। यद्यपीह सु गतौ , षु प्रसवैवै\उfffदार्ययोरिति निरनुबन्धकयोरेव ग्रहणं न्याय्यं, तथाप्यनभिधानादुभयपदिना साहचर्याद्वा तयोग्र्रहणं न भवतीति भावः। ङकारः सुनोतेर्गुणप्रतिषेधार्थः। पकारस्तु स्वरार्थस्तुगर्थश्च।

Satishji's सूत्र-सूचिः

TBD.