TBD.
वयसि गम्यमाने हरतेः कर्मण्युपपदे अच् प्रत्ययो भवति। उद्यमनार्थो ऽयम् आरम्भः। कालकृता शरीरावस्था यौवनादिर् वयः। यदुद्यमनं क्रियमाणं सम्भाव्यमानं वा वयो गमयति, तत्र अयं विधिः। अस्थिहरः श्वा। कवछरः क्षत्रियकुमारः।
TBD.
–
739 वयसि च। कर्मण्युपपदे वयसि गम्ये हरतेरजित्यर्थः। ननु `हरतेरनुद्यमनेऽ'जित्येव सिद्धे किमर्थमिदमित्यत आह– उद्यमनार्थमिति।
618 कवचहर इति। कवचोद्यमनं क्रियमाणं, संभाव्यमानं वा वयो गमयति। तनाऽसत्यपि कवचग्रहणे `कवचहर' इति भवत्येव।
TBD.