Table of Contents

<<3-1-86 —- 3-1-88>>

3-1-87 कर्मवत् कर्मणा तुल्यक्रियः

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि क्रिया कर्म, कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद् भवति। यस्मिन् कर्मणि कर्तृभूते ऽपि तद्वत् क्रिया लक्ष्यते यथा कर्मणि, स कर्ता कर्मवद् भवति। कर्माश्रयाणि कार्याणि प्रतिपद्यते। कर्तरि शप् 3-1-68 इति कर्तृग्रहणम् इह अनुवृत्तं प्रथमया विपरिणम्यते। यगात्मनेपदचिण्चिण्वद्भावाः प्रयोजनम्। भिद्यते काष्ठं स्वयम् एव। अभेदि काष्ठं स्वयम् एव। कारिष्यते कटः स्वयम् एव। वत्करणं स्वाश्रयम् अपि यथा स्यात्, भिद्यते कुसूलेन इति। अकर्मकाणां भावे लः सिद्धो भवति। लिङ्याशिष्यङ् 3-1-86 इति द्विलकारको निर्देशः। तत्र लानुवृत्तेर् लान्तस्य कर्ता कर्मवद् भवति इति कुसूलाद् द्वितीया न भवति। कर्मणा इति किम्? करणाधिकरणाभ्यां तुल्यक्रियस्य मा भूत्। साध्वसिश्छिनत्ति। साधु स्थाली पचति। धात्वधिकारात् समाने धातौ कर्मवद्भावः। इह न भवति, पचत्योदनं देवदत्तः, राध्यन्त्योदनं स्वयम् एव इति। कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवति, न कर्तृस्थाभावकानां न वा कर्तृस्थक्रियाणाम्। कर्मस्थः पचतेर् भावः कर्मस्था च भिदेः क्रिया। मासासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

763

बालमनोरमा

591 कर्मवत्कर्मणा। `कर्तरि श'बित्यतः कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते।तुल्या क्रिया यस्य स तुल्यक्रियः कर्ता। `कर्मणे'त्यनेन कर्मकारकस्था क्रिया विवक्षिता, क्रियायाः कर्मकारकेण तुल्यत्वस्य तत्स्थक्रियामादायैव उपपाद्यत्वात्। तदाह– कर्मस्थयेत्यादिना। कर्मणः कर्तृत्वेन विवक्षायां कर्ता कर्मवदिति यावत्। वत्करणाऽभावे तु कर्मसंज्ञक इत्यर्थशङ्का स्यात्।तथा सति सकर्मकत्वात्पच्यते ओदनेन भिद्यते काष्ठेनेति भावे लो न स्यात्। कार्यातिदेशोऽयमिति। यद्यपि शास्त्रातिदेशे कार्यातिदेशे वा न फलभेदः, तथापि शास्त्रातिदेशस्यापि कार्यातिदेशार्थत्वातन्मुख्यत्वात्कार्यातिदेश एवाश्रयणीय इत्यर्थः। तेनेति। `स्यु'रित्यत्रान्वेति। कर्मवत्त्ववचनेन कर्मकार्याणि `सार्वधातुके य'गिति यक्, `भावकर्मणो'रित्यात्मनेपदम्, `चिण् भावकर्मणो'रिति चिण्, `स्यसिच्सीयुट्तासिषु' इति चिण्वत्त्वं, तत्संनियोगाशिष्ट इट् च स्युरित्यर्थः। कर्मणः कर्त्तृत्वविवक्षायां कत्र्तरि विहितानि शास्त्राण्येव न स्युरिति भावः। कर्तुरिति। कर्मणः कर्तृत्विविक्षायां कर्तरि लकारे सति तदादेशतिङा कर्तुरभिहितत्वादित्यर्थः। पच्यते ओदन इति। फूत्कारादिपुरुषश्रमातिशयविशेषं विना विक्लित्त्याश्रयो भवतीत्यर्थः। भिद्यते काष्ठमिति। कुठारादिदृढाघातं पुरुषश्रमं विना द्विधा भवतीत्यर्थः। अत्र कर्मणः कर्तृत्वेऽपि कर्मत्वाऽतिदेशाद्यक्। अपाचि अभेदीति। अत्र कर्मवत्त्?वाच्चिण्। ननु कर्मणः कर्तृत्वविवक्षायां भावलकारे पच्यते ओदनेन , भिद्यते काष्ठेनेत्यत्र कर्मकर्तुस्तिङाऽनभिहितत्वाद्द्वितीया स्यात्, कर्मवत्त्वातदेशादित्याशङ्कते– नन्विति। परिहरति– नेति। नायमाक्षेप उन्मिषतीत्यर्थः। कुत इत्यत आह– लकार वाच्य एवेति। तच्च कुत इत्यत आह- - लिङ्याशिषीति। `व्यत्ययो बहुलँल्लिड\उfffदाशिष्य'ङ्ङिति संहितया पाठे लकारात् पूर्वं लकारान्तरं `हलो यमा'मिति लुप्तं प्रश्लिष्यते। ततस्च ल् ल् इति द्विलकारात्सूत्रात् ल् इति षष्ठ\उfffद्न्तं `कर्मवत्कर्मणा' इत्यत्रानुवर्तते। तथाच लः कर्ता कर्मवदिति लभ्यते। वाच्यत्वं षष्ठ\उfffद्र्थः। तथा च लकारवाच्यः कर्ता कर्मवदिति पर्यवस्यतीत्यर्थः। अस्त्वेवं, प्रकृते किमायातमित्यत आह– भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेरिति। तत्र भावस्यैव तद्वाच्यत्वादिति भावः। अत एवेति। लकारवाच्यस्यैव कर्मकर्तुः कर्मवत्त्वविधानादेव कृत्यक्तखलर्थाः प्रत्ययाः कर्मणि विहिताः कर्मकर्तरि न भवन्ति, तस्य लकारवाच्यत्वऽबावेन कर्मवत्त्वस्य तत्राऽप्रवृत्त्तेरित्यर्थः। एतच्च भाष्ये स्पष्टम्। ननु `सिनोतेग्र्रासकर्मकर्तृकस्ये'ति निष्ठानत्ववार्तिके `सिनो ग्रासः स्वयमेवे'ति भाष्येकथमुदाह्मतं, क्तप्रत्ययस्य कर्मकर्तर्यभावादिति चेदुच्यते— अत एव भाष्यात् `निष्ठे'ति सूत्रविहितकर्मार्थकक्तप्रत्ययस्यैव कर्मकर्तर्यभाव इति विज्ञायते। `सिनो ग्रासः स्वयमेवे'त्यत्र तु `गत्यर्थाऽकर् मके'त्यादिना कर्तरि विहितः क्तप्रत्ययः कर्मकर्तरि भवत्येवेति शब्देन्दुशेखरे विस्तरः। भेत्तव्यं कुसूलेनेति। पुरुषप्रयत्नमनपेक्ष्य कुसूलकर्तृका भिदिक्रियेत्यर्थः। शङ्कते- - नन्विति। इदानीमिति। कर्मणः कर्तृत्वविवक्षादशायामित्यर्थः। नतु तत्तुल्येति। तुल्यत्वस्य भेदघटित्त्वादिति भावः। अद्र्धाङ्गोकारेण परिहरति– सत्यमिति। विक्लित्तिर्द्विधाभवनं च कर्मस्थमेव संप्रति कर्तृस्थमिति युक्तं तथापि तयोस्तुल्यत्वाऽभावस्तु नेत्यर्थः। कर्मत्वेपि। कर्मत्वकर्तृत्वे अवस्थे = धर्मविशेषौ तयोर्भेदः स एव उपाधिः = निमित्तं यस्य तताविधं कर्मत्वकर्तृत्वसमानाधिकरणक्रियाभेदमाश्रित्य तुल्यत्वव्यवहार इत्यर्थः। वास्तवभेद#आऽभावेऽपि औपाधिकभेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्मकर्तृरिति भावः। करणाधिकरणाभ्यामिति। `असिना छिनत्ति' स्थाल्यां पचती'त्यत्र करणाऽधिकरणयोर्यो व्यापारः स एव `असिश्छिनत्ति' स्थाली पचती' त्यत्र कर्तृस्थ इति तत्रापि कर्मवत्त्वं स्यात्, तन्निवृत्त्यर्थं कर्मणेति पदमित्यर्थः। ननु `कर्मवत्कर्मणे'त्यत्र `धातोरेकाच' इत्यतो धातोरित्यनुवर्तते। धातोर्वाच्यया क्रियया तुल्यक्रिय इत्यर्थः। करणत्वाद्यवस्थायां वस्तुतः सन्नपि असिस्थाल्योव्र्यापारो न धातूपात्त इति नोक्तदोष इत्यस्वरसादाह– किंचेति। गच्छति ग्राम इति। मार्गस्य अविषमनिष्कण्टकतया प्रत्यासन्नतया च श्रमं विना प्राप्त्याश्रयो भवतीत्यर्थः। आरोहति हस्तीति। अङ्कुशाऽऽघातादिहस्तिपकव्यापारं विना स्वयमेव न्यग्भवन् आरोहणाश्रयो भवतीत्यर्थः। अधिगच्छतीति। पूर्वाद्र्धमिदम्। `यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा' इत्युत्तराद्र्धम्। गुरुकृपालेशादेव श्रमं विना स्वयमेव शास्त्रार्थोऽधिगच्छति = निश्चयविषयो भवति, स्मृतिविषयो भवति, श्रद्धाविषयो भवतीत्यर्थः। अत्र कर्मकर्तुग्र्रामादेः कर्तृस्थक्रियावत्त्वेन कर्मस्थक्रियावत्त्वाऽभावान्न कर्मवत्त्वम्। अतो न कर्मकार्यम् यगादि।किंतु कर्तृकार्यं शबाद्येवेति भावः। ननु कर्मकर्तुग्र्रामादेः प्राप्त्याद्याश्रयत्वेन कर्मस्थक्रियत्वमस्त्येवेत्यत आह– यत्रेति। यत्रक्रियाकृतो विशेषो = वैलक्षण्यं दृश्यते = प्रत्यक्षमुपलभ्यते, तत्र कर्मणि विद्यमाना क्रिया कर्मस्थक्रियेत्युच्यते इत्यन्वयः। तदुदाह्मत्य दर्शयति— यथा पक्वेषु तण्डुलेष्विति। `तण्डुलावस्थापेक्षया विक्लित्तिकृतो विशेषो दृश्यते' इति शेषः। अन्यत्रापि क्रियाकृतं वैलक्षण्यमुदाह्मत्य दर्शयति– यथा वा छिन्नेषु काष्ठेष्विति। `अच्छिन्नापेक्षया वैलक्षण्यं दृश्यते' इति शेषः। `गच्छति ग्राम' इत्यादौ तु नैवमित्याह– न हीति। ग्रामेष्विति। उपलक्षणमिदम्। पक्वाऽपक्वतण्डुलेषु यथा क्रियाकृतं वैलक्षण्यमुपलभ्यते तथा गताऽगतग्रामे आरूढाऽनारूढहस्तिनि अधिगताऽधिगते स्मृताऽस्मृते श्रद्धिताऽश्रद्धिते च शास्त्रार्थे क्रियाकृतवैलक्षण्यं न दृश्यते इत्यर्थः। ग्राममनादौ कर्तर्येव श्रमादिवैलक्षण्यदर्शनादिति भावः। ननु ज्ञानेच्छयोरिव यत्नस्याऽपि कर्तृस्थत्वात्तद्वाचिनः कृञोऽपि कर्ता न कर्मवत्स्यात्। ततश्च `क्रियते घटः स्वयमेवे'ति यगादिर्न सिद्ध्येदित्याशङ्क्य कृञो न यत्नार्थत्वमित्याह- - करोतिरुत्पादनार्थ इति। उत्पत्त्यनुकूलव्यापारार्थक इत्यर्थः। एतच्च भूवादिसूत्रे भाष्ये स्पष्टम्। करोतेरुत्पादनार्थकत्वे तु कर्मस्थक्रियत्वं तत्कर्तुरुपपादयति– उत्पत्तिश्च कर्मस्थेति। उत्पन्ने अनुत्पन्ने च वैलक्षण्यस्य प्रत्यक्ष्तवादिति भावः। तेनेति। कृञः कर्तुः कर्मस्थक्रियत्वेनैत्यर्थः। तथा च `क्रियते घटः स्वयमेवे'त्यत्र यक्। तासि तु चिण्वदिट्पक्षे कारिता, तदभावे तु कर्तेति सिद्धवत्कृत्याह–करिष्यते घट इत्यादीति। चिण्वदिट्पक्षे `कारिष्यते' इति रूपं, तदभावपक्षे तु `ऋद्धनोः स्ये' इतीट्–करिष्यते। सीयुटश्चिण्वदिटि– कारिषीष्ट। तदभावे तु –कृषीष्ट। लुङि– अकारि अकृत। नैतदिति। कर्मवत्वं न सिद्ध्येदित्यर्थः। `यततेट इतिवत्सकर्मकत्वमेव न स्यादित्यपि बोध्यम्। एतेनेति। ज्ञानस्य कर्तृस्थत्वव्युत्पादनेनेत्यर्थः। अनुव्यवस्यमानेऽर्थे इति। अर्ते स्वयमेव निश्चयविषयतां संपद्यमाने इत्यर्थः। व्याख्यातमिति। समर्थितमित्यर्थः। कथं समर्थितमित्यत आह– कर्तृस्थत्वेन यगभावादिति। अनुव्यवसायः = निश्चयः, तत्र कर्मकर्ता अर्थः, स न कर्मस्थक्रियः, अर्थे अनुव्यवसायकृतवैलक्षण्याऽभावात्, किंतु कर्तृस्थक्रिय एव, अनुव्यसायकर्तरि देवदत्ते हर्षादिदर्शनात्। ततश्चकर्मवत्त्वाऽभावान्न यक्।यकि तु कित्त्वात् `घुमास्थागापाजहातिसा'मिति ईत्वे `अनुव्यवसीयमान' इति स्यादित्यर्थः। ननु यगभावे कथं यकारश्रवणमित्यत आह– श्यनीति। `षो अन्तकर्मणि' इति धातोरनुव्यवपूर्वादुपसर्गवशेन निश्चयवृत्तेराने कृते श्यनि `ओतः श्यनी' त्योकारलोपे `अनुव्यवस्यमान' इति रूपसिद्धेरित्यर्थः। ननु कर्मवत्त्वाऽभावे `भावकर्मणो' रित्यात्मनेपदाऽभावात्कथमिह लटः शानच्, तस्यात्मनेपदत्वादित्यत आह– ताच्छील्यादाविति। `ताच्छील्यवयोवचनशक्तिषु चान'शित्यनेन चानशित्यर्थः। तस्य च लादेशत्वाऽभावेन आत्मनेपदत्वाऽभावात् करमवत्त्वाऽभावेऽपि कर्मकर्तरि प्रवृत्तिर्निर्बाधा। तदाह– न त्वात्मनेपदमिति। ननु `अन्योन्यं स्पृशतः स्वयमेव यज्ञदत्त देवदत्ता'वित्यत्रापि कर्मत्वाद्यगादि स्यात्। तत्र हि स्पृशिः संयोगानुकूलव्यापारार्थकः। उभावपि कर्तारौ, कर्मभूतौ च। स्पर्शनक्रियाया एकत्वेऽपि आश्रयभेदात्तद्भेदमाश्रित्य यज्ञदत्तनिष्ठां स्पर्शनक्रियां प्रति देवदत्तस्य कर्मत्वम्। एवं देवदत्तनिष्ठां स्पर्शनक्रियां प्रति यज्ञदत्तस्य कर्मत्वम्।एवं कर्तृत्वप्युभयोज्र्ञेयम्। एवंच उभयोः कर्तृत्वकर्मत्वसत्त्वादेकस्मिन् कर्तरि कर्मणि वा स्पृशिक्रिया सैवेतरस्मिन् कर्तरि कर्मणि वा वर्तते इति कर्मवत्त्वं स्यात्, आश्रयनिबन्धनं भेदमाश्रित्य तुल्यक्रियत्वोपपत्तेः। स्पृष्टाऽस्पृष्टयोरन्योन्यसंयोगकृतहर्षादितदभावर्सनाचच्चेत्यत आह– सकर्मकाणां प्रतिषेध इति। एककर्मकाणां छिदिभिदिप्रभृतीनां कर्मणः कर्तृत्वविवक्षया अकर्मकाणां कर्तुः कर्मवत्त्वमुक्तम्। ये तु द्विकर्मकाः कर्मणः कर्तृत्वविवक्षायामपि सकर्मका धातवस्तेषां धातूनां कर्मकर्तुः कर्मवत्त्वप्रतिषेधो वक्तव्य इत्यर्थः। अन्योन्यं स्पृशत इति। कर्मवत्त्वे तु यकि तङि च `स्पृश्येते' इति स्यादिति भावः। `सकर्मकाणां प्रतिषेधः इत्यस्योदाहरणान्तरमाह– अजा ग्रामं नयतीति। अजा ग्रामं स्वयमेव प्राप्नोतीत्यर्थः। अत्र नयनं प्रत्यजायाः कर्मणः कर्तृत्वविववक्षायामपि ग्राममादाय सकर्मकत्वान्न कर्मवत्त्वमिति भाव-। वस्तुतस्तु गते अगते चग्रामे वैलक्षण्याऽभावादेवाऽत्र क्मवत्त्वस्याऽप्राप्तिरिति नेदमस्य वार्तिकस्योदाहरणम्। अत एव भाष्ये अन्योन्यमाश्लिष्यतः, अन्योन्यं स्पृशतः, अन्योन्यं सङ्गृहीत इत्येवोदाह्मतमिति शब्देन्दुशेखरे स्पष्टम्। दुहिपच्योरिति। `कर्मवत्त्व'मिति शेषः। अनयोर्द्विकर्मकत्वादेकस्य कर्मणः कर्तृत्वविवक्षायामपि अन्यकर्मणा सकर्मकत्वात्पूर्ववार्तिकेन कर्मवत्त्वनिषेधे प्राप्ते प्रतिप्रवसोऽयम्।

तत्त्वबोधिनी

486 कर्मवत्कर्मणा। वत्करणं किमर्थम् ?। यथा अब्राहृदत्ते प्रयुज्यमानो ब्राहृदत्तशब्दः ब्राहृदत्तवदित्यर्थं वदति तथा कर्मेत्युच्यमानेऽपि कर्मवदित्यर्थलाभात्। सत्यम्। कर्मणा तुल्यक्रियः कर्ता कर्मेत्युच्यमने कर्मसंज्ञक इत्यर्थः स्यात्। तथा हि सति अकर्मकव्यपदेशाऽभावाद्भावे लकारो न स्यात्– किं तु कर्मणि स्यात्– `पच्यते ओदनः भिद्यते काष्ठ'मिति। यद्यप्ययं प्रयोगः सिद्धान्ते इष्ट एव तथापि `पच्यते ओदनेन, भिद्यते काष्ठेने'ति भावे न स्यादिति बोध्यम्। कर्मशब्देनाऽत्र कर्मस्थक्रिया लक्ष्यत इत्याह– कर्मस्थयेति। कर्मकारकस्थयेत्यर्थः। `कर्तरि श'बित्यतः कर्तरीत्यनुवर्त्त्य प्रथमया विपरिणम्यते। सच विशेष्यस्तदाह– तुल्यक्रियः। कर्तेति। कार्यातिशेधोऽयमिति। यद्यपि शास्त्रातिदेशेऽपि लक्ष्यं सिध्यति तथापि शास्त्रस्यापि कार्यार्थतया मुख्यत्वात्कार्यातिदेश एवाश्रितः। भावे लकारे इति। तत्र कर्तुरनभिहितत्वादिति भावः। द्विलकारकादिति। `व्यत्ययो बहुललँ-ल्लिड\उfffदाशिष्य' क्ङिति संहितया पाठेऽनुस्वारस्य परसवर्णेन जाते लकारे तस्योपरि लद्वयमित्यर्थः। तेन `लकारवाच्यः कर्ता तत्रैव कर्मवत्त्वमिति व्युत्पादनस्य फलमाह– अत एवेति। न भवन्तीति। लकारेणैव कर्मकर्तुरुपस्थानात्कृत्यादीनां प्रसक्तिर्नास्ति, उक्तार्थानामप्रयोगात्। लविधेः पूर्वं तु सुतरां नास्ति, लकारोपस्थाप्यकर्तुरभावेन कर्मत्त्वाऽभावादिति भावः। अत्रेदं बोध्यं— `कृत्यक्तखलर्था' इत्यत्र क्तग्रहणं त्युक्तमुचितं , तस्य कर्मकर्तरि इष्टत्वात्– `भिन्नः कुसूलः स्वयमेवे'ति। वक्ष्यति च स्वयमपि–`सिनोतेग्र्रासकर्मकर्तृकस्ये'ति वार्तिके– `सिनो ग्रासः स्वयमेवे'ति। ननु `गत्यर्थाऽकर्मके'त्यत्राऽविवक्षितकर्माणोऽकर्मका इति न गृह्रन्ते, दत्तवान् पक्ववानित्यर्थे दत्तः पक्व इत्यापत्तेरिति चेत्। अत्राहुः- - `सिनोतेग्र्रासकर्कर्तृकस्ये'ति निष्ठातकारस्य नकारविधानसामथ्र्यादविवक्षितकर्माणोऽपि क्वचिद्गृह्रन्ते। अन्यथा निष्ठातकारस्तत्र न लभ्येत, तेन `सिनो ग्रासः स्वयमेव, `भिन्नः कुसूलः स्वयमेवे'त्यादि सङ्गच्छते इति। अत्र केचिद्वदन्तिलकारवाच्यस्यैव कर्तुः कर्मवत्त्वे `कर्मवत्कर्मणे'त्यत्र वद्ग्रहणं व्यर्थम्। न च कर्तुः कर्मसंज्ञायां भवे लकारो न स्यादित्युक्तमिति वाच्यं, कर्मणः कर्तृत्वविवक्षायां धातुरकर्मक इत्यकर्मकात्कर्तरीव भावे लकारस्य निर्बाधत्वात्। लकारवात्त्यस्य कर्मसंज्ञायामपि केवलकर्तुस्तदनभ्युपगमात्। न हि भावे लकारः कर्तारं वक्ति। न च वत्करणाऽभावे कर्तुः कर्मसंज्ञायां कर्तृव्यपदेशाऽभावान्नमते दण्ड इत्यत्र `न दुहरुआउनमा'मिति यको निषेधेऽपि शब्न स्यात्, वत्करणे कृते तु कर्तृकार्यमपि स्यादिति वाच्यम्, एकसंज्ञाधिकारादन्यत्र संज्ञाद्वयसमावेशादिष्टसिद्धेरिति। न तु तत्तुल्येति। तुल्यत्वं हि सादृश्यम्। तच्च भेदनिबन्धनम्, नच प्रकृते भेदोऽस्ति,कर्मणः कर्तृत्वविवक्षायां कर्मस्थफलरूपक्रियाया एव कर्तृस्थत्वात्, तथा च सूत्रमिदमसमञ्जसमिति भावः। वास्तविकभेदाभावेऽप्यौणपाधिकभेदोऽस्तीत्याह– कर्मत्वेति। कर्मत्वकर्तृत्वाऽवस्थयोर्भेदस्तद्भेदोपाधिकरमवस्थभेदसमानाधिकरणं क्रियाभेदमाश्रित्येत्यर्थः। एवं चावस्थाभेदेन क्रियाबेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्तुरस्तीति भावः। करणाधिकरणाभ्यामिति। `तुल्यक्रिय कर्ते'त्येतावत्युच्यमाने `असिना छिनत्ति' `स्थाल्यां पचती'त्यादौ करणाधिकरणयोर्यो व्यापारः स एवेदानामसिश्छिनत्ति स्थाली पचतीत्यादौ कर्तृस्थ इत्यतिप्रसङ्गः स्यात्, तन्माभूदित्यथः। नच कर्मत्वाऽवस्थायां विक्लित्यादिरिव करणत्वाद्यवस्थायामपि स्थाल्या व्यापारो वस्तुतः सन्नपि धातुना नोपात्त इति कथमतिप्रसङ्ग इति वाच्यं, सादृश्यप्रतियोगिक्रियाया धातूपात्तत्वेनाऽविशएषितत्वात्। न ह्रेतस्मिन्सूत्रे धातूपात्तक्रियया तुल्यक्रिय इत्युक्तमस्ति येनातिप्रसङ्गो न भवेत्। ननु तुल्यक्रियः कर्ता कर्मवद्भवतीत्युक्ते केनेत्याकाङ्क्षायामनेककारकोपस्थितावपि कर्मवदिति प्रत्यासत्त्या कर्मणेति लभ्यत एवेत्यत आह–किं चेति। अधिगच्छतीत्यादिश्लोकस्योत्तराद्र्धन्तु `यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा'। ननु फलं व्यापारश्च धात्वर्थः, स एव क्रियाशब्दवाच्यः। तत्र व्यापाराश्रयः कर्ता, फलाश्रयस्तु कर्म। एं च पचिभिदिप्रभृतीनां , गमिरुहिप्रभृतीनां च सकर्मकत्वे फलस्य कर्मनिष्ठत्वे च तुल्ये कर्तृस्थभावका गम्यादय इति कथं ज्ञातव्या इत्यत आह– यत्र र्मणीति। ग्रामेष्विति। आरूढाऽनारूढहस्तिषु अधिगतानधिगतशास्त्रार्थेष्वित्यादावपि वलक्षण्यं नोलभ्यत इति बोध्यम्। कारिष्यते इति। `स्यसिच्सीयु'डिति वैकल्पकश्चिण्वदिट्। पक्षे `ऋद्धनोः स्ये' इतीट्। करिष्यते। एवं लृङि अकारिष्यत। सिचश्चिण्वदिटि– अकारिष्ट। पक्षे अकृत। सीयुटश्चिण्वदिटि–कारिषीष्ट। पक्षे–कृषीष्ट। तासि तु कारिता कर्ता। यक्चिणोस्तु क्रियते घटः स्वयमेव, अकारीत्यादि। नैतत्सिध्येदिति। `कर्मवत्कर्मणे'ति कर्मवत्त्वं न सिध्येदित्यर्थः। एतेन पचति पाकं करोतीति विवकरणादाख्यातस्य यत्ने शक्तिरित नैयायिकोक्तिः पारस्ता। करोतेर्यत्नार्थत्वे तु यतते इति वत्सर्मकतापि न स्यादिति। एतेनेति। ज्ञानसय् कर्तृस्थत्वाभ्युपगमेनेत्यर्थः। यगभावादिति। सति तु यक्यनुव्यवसीयमान इति स्यादिति भावः। ओल्लोप इति। `ओतः श्यनी'त्यनेन। ननु कर्मवत्त्वाऽभावे कथमिह शानजित्यत आह– ताच्छील्यादाविति। न त्विति। शानज्न भवतीत्यर्थः। `देवदत्तयज्ञदत्तावन्योन्यं स्पृशत' इत्यत्र तयोरेव कर्मत्वं कर्तृत्वं चास्तीति कर्मस्थक्रियायाः कर्तृस्थत्वात्कर्मवद्भावप्राप्तिमाशङ्क्याह– सकर्मकाणामिति। न चाऽत्र `देवदत्तो यज्ञदत्तं स्पृशति, यज्ञदत्तस्तुदेवदत्त'मिति क्रियाभेदोऽवश्यमाश्रयितव्यः। तथा च स्वनिष्ठां क्रियां प्रति कर्त्तृत्वम्, इतरक्रिया प्रति तु कर्मत्वं भवति। अन्यथा द्वयोरपि कर्तृत्वमेव स्यात्`इमौ गङ्गां स्पृशत' इत्यत्र यथा। एवं च कर्मस्थक्रियायाः कर्तृस्थत्वाऽभावात्कर्मवद्भावो न प्राप्नोति। न च संयोगस्य द्विष्ठत्वात्कर्मस्थफलस्य कर्तृस्थत्वाऽच्चास्त्येवेति शङ्क्यं, तत्तन्निरूपितसंयोगस्य भिन्नत्वात्। अन्यथा फलव्यापारयोरेकाश्रयत्वे सकर्मकत्वमेव न लभ्येत्। किंच रुहिगम्योः कर्तृस्थक्रियत्वादारोहते हस्ती, गच्छति ग्राम इत्यत्र कर्मवद्भावो नेति भाष्यकैयटादिसंमतम्। तथाच संयोगरूपफलस्य सर्वत्र तुलयतया रुहिगमिभ्यां स्पृशेर्वैषम्यं दुरुपपादमिति नाऽत्रकर्मवत्त्वप्रसक्तिरित्युदाहणान्तरमाह– अजा ग्रामं नयतीति। इह प्रतिषेधाऽभावे यक् स्यात्, क्रियाफलस्याऽकर्तगामित्वेऽप्यात्मनेपदं स्यादिति भावः। नन्विहापि कर्मणि क्रियाकृतो विशेषो नोपलभ्यत इति कर्मस्थक्रियत्वं दुरुपपादमिति चेत्। अत्राहुः– क्रियाकृतविशेषोपलम्भाऽनुपलम्भवदुद्देश्यताऽपि नियामिका। यत्र क्रमस्थांऽशस्योद्देशयता सा कर्मस्थक्रिया, यत्र तु व्यापारांऽशस्यसा कर्तृस्थेति। तथा हि–दर्शनारोहणाभ्यां विषये न्यग्भूतेच विशेषानुपलम्भात्कर्तृस्थता। उद्देशानुरोधाच्च अहं पश्येयमित्युद्देशो, न त्वयं विषयो भवत्विति। एवमहमुपरिगच्छेयमित्युद्देशो न तु हस्तनो न्यग्भावो भवत्विति। ऊध्र्वदेशसंयोगानुकूलव्यापारविशेष उपरिगमनं, तदेव रुहेरर्थो न तु न्यग्भावमात्रम्। वृक्षस्यशाखां हस्ताभ्यामवनमयत्यपि भूमिष्ठे पुर#उष आरोहतीत्यप्रयोगात्। अतएव हि `यद्धितुपरं छन्दसी'त्यत्र भाष्यं `रुहिर्गत्यर्थ' इति। अत एव चारोहन्ति हस्तिनं हस्तिपकास्तानारोहयति महामात् इत्यादिप्रोगेष्वणौ कर्तुर्णौ क्मत्वं सङ्गच्छते। पचिभिद्योस्तु विक्लित्तिर्द्विधाभवनरूपो विशेषः कर्मणि दृष्टस्तदुद्देशेनैव कारकव्यापार इति कर्मस्थक्रियत्वात्पच्यते ओदनः, भिद्यते काष्ठमित्यत्र कर्मवद्भावो भवत्येव। अजा ग्रामं नयतीत्यत्रापि कर्मस्थांऽशस्य संयोगस्योद्देश्यता, न तु व्यापारांशस्येति कर्मवद्भावे प्राप्ते प्रतिषेधोऽयमावश्यक इति दिक्।

Satishji's सूत्र-सूचिः

TBD.