TBD.
मान् पूजायाम्, बध बन्धने, दान अवखण्डने, शान अवतेजते, इत्येतेभ्यो धातुभ्यः सन् प्रत्ययो भवति, अभ्यासस्य च इकारस्य दीर्घादेशो भवति। मीमांसते। बीभत्सते। दीदांसते। शीशांसते। उत्तरसूत्रे वाग्रहणं सर्वस्य शेषो विज्ञायते, तेन क्वचिन् न भवत्यपि। मानयति। बाधयति। दानयति। निशानयति। अत्र अपि सन्नर्थविशेष इष्यते। मानेर् जिज्ञासायाम्, बधेर् वैरूप्ये, दानेरार्जवे, शानेर् निशाने।
TBD.
–
230 मान्बध। गुप्तिजी इह पठितौ। `कित निवासे' इत्यनुपदमेव परसमैपदिषु पठिष्यते। एभ्यस्त्रिभ्यो धातुभ्यः सन्प्रत्ययः स्यादिति प्रथमसूत्रार्थः। मानधातुर्बधधातुश्च इह पठितौ। दान खण्डने, शान तेजने इत्यनुपदमेव स्वरितेत्सु पठिष्येते। एभ्यश्चतुभ्र्यः सन् स्यादिति द्वितीयसूत्रे प्रथमखण्डस्याऽर्थः। `आभ्यासस्ये'ति च्छेदः। अभ्यासस्य विकारः आभ्यासः। स च `सन्यतः' इति इत्त्वमेव,न तु ह्यस्व इति `गुणो यङ्लुको'रिति सूत्रे भाष्ये स्पष्टम्। ततश्च मान्बधदान्शानामब्यासावयवस्य इकारस्य सन्–संनियोगशिष्टो दीर्घश्च स्यादिति द्वितीयसूत्रे द्वितीयखण्डस्यार्थः। इत्यभिप्रेत्य सूत्रद्वयस्य फलितमर्थमाह– सत्रद्वयेति। अथ उक्तसनोर्वृत्तिकृदात्युपनिबद्धानर्थविशेषानाह- - गुपेर्निन्दायामित्यादिना, शानेर्निशाने इत्यन्तेन। अत गोपानाद्यर्थकानां निन्दादौ वृत्तिस्त्वर्थनिर्देशस्योपलक्षणत्वाद्बोध्या। जिज्ञासाशब्देन जिज्ञासाप्रयोज्यो विचारो लक्ष्यते। `मानेर्विचारे' इत्येव वृत्तिकृत्। सन्नन्तस्य धातुकार्यप्राप्त्यर्थमाह–सनाद्यन्ता इति।
202 मान्बध। `आभ्यासस्ये' ति च्छेदः। अभ्यासस्य विकार आभ्यासः। स चाऽत्र `सन्यतः' इतीत्त्वमेव। यदि तु ह्यस्व इत्यव गृह्रेत तर्हि तद्धितनिर्देशो व्यर्थः स्यात्। तदेतदाह– अभ्यासेकारस्येति। वृत्तिकाराद्युपनिबद्धार्थान्दर्शयति- गुपेर्निन्दायामित्यादिना।
वृत्तिः “मानँ पूजायाम्”, “बधँ बन्धने”, “दानँ खण्डने”, “शानँ तेजने” एतेभ्यः सन् स्यादभ्यासस्येकारस्य दीर्घश्च । The affix सन् is employed after the verbal roots – √मान् (मानँ पूजायाम् १. ११२७), √बध् (बधँ बन्धने १. ११२८), √दान् (दानँ खण्डने (अवखण्डने)१. ११४९) and √शान् (शानँ तेजने (अवतेजने)१. ११५०) – and the इकारः of the अभ्यासः is elongated.
Note: The पदच्छेदः of this सूत्रम् is मान्बधदान्शान्भ्यः, दीर्घः, च, आभ्यासस्य। आभ्यासस्य = अभ्यासस्य विकारस्य which here means अभ्यासस्येकारस्य (अभ्यासस्य + इकारस्य)।
The following वार्तिकानि specify the special meanings in which this affix सन् is used:
मानेर्जिज्ञासायाम् – The affix सन् is employed after the verbal root √मान् (मानँ पूजायाम् १. ११२७) in the sense of “to inquire/investigate.”
बधेश्चित्तविकारे – The affix सन् is employed after the verbal root √बध् (बधँ बन्धने १. ११२८) in the sense of “to be disgusted.”
दानेरार्जवे – The affix सन् is employed after the verbal root √दान् (दानँ खण्डने (अवखण्डने)१. ११४९) in the sense of “to straighten.”
शानेर्निशाने – The affix सन् is employed after the verbal root √शान् (शानँ तेजने (अवतेजने)१. ११५०) in the sense of “to sharpen.”
उदाहरणम् – मीमांसते is a desiderative form derived from √मान् (मानँ पूजायाम् १. ११२७)
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
मान् + सन् 3-1-6
= मान् + स 1-3-3, 1-3-9. Note: The सन् affix does not get the आर्धधातुक-सञ्ज्ञा here, since it is not prescribed using the term “धातोः”। Therefore 7-2-35 does not apply here.
= मान् स् मान् स 6-1-9
= मा मान् स 7-4-60
= म मान् स 7-4-59
= मि मान् स 7-4-79
= मी मान् स 3-1-6
= मीमांस 8-3-24
“मीमांस” gets धातु-सञ्ज्ञा by 3-1-32
मीमांस + लँट् 3-2-123 = मीमांसते 1-3-62, 1-3-12