Table of Contents

<<3-1-64 —- 3-1-66>>

3-1-65 तपो ऽनुतापे च

प्रथमावृत्तिः

TBD.

काशिका

न इति वर्तते। तप सन्तापे, अस्मात् परस्य च्लेः चिणादेशो न भवति कर्मकर्तरि अनुतापे च। अनुतापः पश्चात्तपः। तस्य ग्रहणम् कर्मकर्त्रर्थं, तत्र हि भावकर्मणोरपि प्रतिषेधो भवति। अतप्त तपस्तापसः। अन्ववातप्त पापेन कर्मणा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

759 तपश्च्लेश्चिण् न स्यात् कर्मकर्तर्यनुतापे च. अन्वतप्त पापेन. घुमास्थेतीत्त्वम्. दीयते. धीयते. ददे..

बालमनोरमा

तत्त्वबोधिनी

481 तपोऽनु चकारेण `अचः कर्मकर्तरी' त्यतः कर्मकर्तरीत्येतदनुकृष्यते। कर्मण्युदाहरणमिति ध्वनयति– अभ्याहत इत्यर्थ इति। भावेऽपीदमुदाहरणमित्याह– पापेन पुंसेति। अविचार्य कर्म कृत्वा पश्चादशोचीत्यर्थः। कर्मकर्तरि तु तत्प्रक्रियायामुदाहरिष्यति।

Satishji's सूत्र-सूचिः

TBD.