Table of Contents

<<3-1-63 —- 3-1-65>>

3-1-64 न रुधः

प्रथमावृत्तिः

TBD.

काशिका

रुधिरावरणे, अस्मात् परस्य च्लेः कर्मक्र्तरि चिणादेशो न भवति। अन्ववारुद्ध गौः स्वयम् एव। कर्मकर्तरि इत्येव, अन्ववारोधि गौः गोपालकेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

594 न रुधः। अस्माच्चेश्चिण्नेति। अवारुद्ध गौरिति। `स्वयमेवे'ति शेषः। कर्मकर्तरीत्येवेति। `अचः कर्मकर्तरी'त्यतस्तदनुवृत्तेरिति भावः। अवारोधि गौर्गोपेनेति। इह गोः कर्मणः कर्तृत्वविवक्षाया अभावान्न चिण्निषेध इति भावः।

तत्त्वबोधिनी

489 न रुधः। `चिण् ते पदः' इत्यतश्चिणनुवर्तते। `अचः कर्मकर्तरीत्येवेति।

Satishji's सूत्र-सूचिः

TBD.