Table of Contents

<<3-1-65 —- 3-1-67>>

3-1-66 चिण् भावकर्मणोः

प्रथमावृत्तिः

TBD.

काशिका

धातोः परस्य च्लेः चिणादेशो भवति भावे कर्मणि तशब्दे परतः। भावे तावत् अशायि भवता। कर्मणि खल्वपि अकारि कटो देवदत्तेन। अहारि भारो यज्ञदत्तेन। चिण्ग्रहणं विस्पष्टार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

757 च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे. अभावि. अभाविष्यत, अभविष्यत. अकर्मकोऽप्युपसर्गवशात्सकर्मकः. अनुभूयते आनन्दश्चैत्रेण त्वया मया च. अनुभूयेते. अनुभूयन्ते. त्वमनुभूयसे. अहमनुभूये. अन्वभावि. अन्वभाविषाताम्, अन्वभविषाताम्. णिलोपः. भाव्यते. भावयाञ्चक्रे, भावयाम्बभूवे, भावयामासे. चिण्वदिट्. आभीयत्वेना सिद्धत्वाण्णिलोपः. भाविता, भावयिता. भाविष्यते, भावयिष्यते. अभाव्यत. भाव्येत. भाविषीष्ट, भावयिषीष्ट. अभावि. अभाविषाताम्, अभावयिषाताम्.. बुभूष्यते.. अकृत्सार्वधातुकयोर्दीर्घः. स्तूयते विष्णुः. स्ताविता, स्तोता. स्ताविष्यते, स्तोष्यते. अस्तावि. अस्ताविषाताम्, अस्तोषाताम्.. ऋ गतौ. गुणोर्ऽतीति गुणः. अर्यते.. स्मृ स्मरणे. स्मर्यते. सस्मरे. उपदेशग्रहणाच्चिण्वदिट्. आरिता, अर्ता. स्मारिता, स्मर्ता. अनिदितामिति नलोपः. त्रस्यते. इदितस्तु नन्द्यते. संप्रसारणम्. इज्यते..

बालमनोरमा

583 चिण्भावकर्मणोः। च्लेरिति। `च्लेः सि'जित्यतस्तदनुवृत्तेरिति भावः। तशब्दे परे इति। तशब्दे परे इति। `चिण् ते पदः' इत्यतस्तदनुवृत्तेरिति भावः अभावीति। च्लेश्चिणि कृते `चिणो लु'गिति तशब्दस्य लोपः। चिण्विधौ तशब्दे किम् ?। अभाविषात्। अथ अनुपूर्वाद्धूधातोरुपभोगार्थकात्सकर्मकात्कर्मणि लकारे विशेषमाह– - तिङोक्तत्वादिति। कर्तुस्त्वनभिहित्वात्तृतीयैवेति भावः। युष्मदस्मदुपात्तयोः कत्र्रोस्त्वनभिहितत्वातत्तृतीया। अनूभूयेते इति। `सुखदुःखे' इति शेषः। अनुभूयन्ते इति। `सुखानी'ति शेषः। णिलोप इति। भूधातोर्णौ वृद्दधौ आवादेशे भावीति ण्यन्तात्कर्मणि लटस्तादेशे यकि णिलोप इत्यर्थः। भावयामासे इति। प्रथमपुरुषैकवचने, उत्तमपुरुषैकवचने च रूपम्। इहेति। `भावयामासे' इत्यत्र प्रथमैकवचनतशब्दस्य `लिटस्तझयो'रिति एशादेशे उत्तमपुरुषैकवचनस्य इटश्च `टित आत्मनेपदाना'मित्येत्त्वे च कृते भावयमामास् ए इति स्थिते `ह एती'ति सकारस्य हकारः प्राप्तो न भवतीत्यर्थः। कुत इत्यत आह– तासीति। `ह एती'त्यत्र तासस्त्योरित्यनुवर्तते। तत्र एधिताहे इत्यादौ तासेः सार्वधातुक एव एति परे हकार इति निर्विवादम्। तथाविधतासिसाहचर्यादस्तेरपि सकारस्य `व्यत#इहे' इत्यादौ सार्वधातुक एव परे प्रवृत्तिः। अतो `भावयामासे इत्यत्र नाऽस्तेः सकारस्य हकारः, एकारस्याद्र्धधातुकत्वादित्यर्थः। भावितेति। ण्यन्तात् भावि- ता इति स्थिते परत्वाद्वलादिलक्षणमिटं बाधित्वा चिण्विदिटि तस्याऽऽभीयत्वेनाऽसिद्धत्वादनिटीति निषेधाऽभावाण्णिलोपे भावितेति रूपम्। अतएव चिण्वदिड्विधौ `उपदेशे योऽ'जित्येव व्याख्यातम्, नतु `उपेदशे अजन्तस्ये'ति, तथा सति हि णिजन्तस्य उपदेशाऽभावान्न स्यादिति भावः। वलादिलक्षणे इटि कृते तु तस्य अनाभीयत्वेन असिद्ध्तवाऽभावादनिटीति निषएधाण्णिलोपाऽभावे णेर्गुणाऽयादेशयोः कृतयोर्भावयितेति रूपमिति मत्वा आह– पक्षे भावयितेति। अथ सन्न्नताद्भूधातोर्भावलकारे उदाहरति– बूभूष्यते इति। यकि सनोऽकारस्य `अतो लोपः' इति लोपः। बूभूषिता। बुभूषिष्यते इति। चिण्वदिटि वलादिलक्षणे इटि च रूपं तुल्यम्। चिण्वदिड्भावपक्षे।ञपि तदतिदेशेन प्राप्तां वृदिं?ध बाधित्वा परत्वादतो लोपः। अथ यङन्ताद्भूधातोर्भावलकारे उदाहरति- - बोभूय्यते इति। यकि यङोऽकारस्य पूर्ववदतो लोपः। द्वियकारकं रूपम्। यङलुगन्ताद्बोभूयते इति एकयकारं रूपम्। ष्टुञ्धातोः कर्मलकारे यकि तस्याद्र्धधातुकत्वात् `अतो दीर्घो यञी'त्यप्राप्तावाह– अकृत्सार्वेति। स्ताविता स्तोतेति। चिण्वदिडभावपक्षेऽनिट्कत्वान्नेट्। अथ ऋधातोः कर्मणि लकारे यकि कृते कित्त्वाद्गुणनिषेधे प्राप्ते आह— गुणोऽर्तीति। अर्यते इति। गुणे कृते रपरत्वम्। `स्मृ'धातोः कर्मणि लकारे आह– – स्मर्यते इति। `गुणेऽर्ती'ति संयोगादित्वाद्गुणे रपरत्वमिति भावः। ननु लुटि ऋ ता, स्मृ इति स्थिते चिण्वदिटं बाधित्वा परत्वाद्गुणः प्राप्नोति, नित्यत्वाच्च, अकृते कृते च चिण्वदिटिगुणस्य प्राप्तेः। कृते तु गुणे रपरत्वेऽजन्तत्वाभावच्चिण्वदिडभावे अनिट्त्वाद्वलादिलक्षणेऽभावे अत स्मर्तेत्येव स्यात्, आरिता स्मारितेति न स्यादित्यत आह– परत्वादित्यादि। कृते गुणे रपरत्वे अजन्तत्वाऽभावेऽपि उपदेशे योऽच् तदन्तस्येत्युक्तेश्चिण्वदिण्निर्बाध इत्यर्थः। आरितेति। कृतेऽपि गुणे रपरत्वे चिण्वदिटि उपधावृद्धिः। अत्र्तेति। चिण्वदिडभावे रूपम्। एवं स्मारिता स्मर्तेत्यपि। ननु संपूर्वात्कृञः कर्मणि लकारे यकि `रिङ् शयग्लिङक्षुट इति रिङादेशे `संपरिभ्यां करोतौ भूषणे, समवाये चे'ति सुटि संस्क्रियते इति वक्ष्यते। तत्र `गुणोऽर्ती'ति संयोगादित्वाद्गुणः स्यादित्यत आह- - नित्यग्रहणानुवृत्तेरिति। `नित्यं छन्दसी'त्यतो नित्यमित्यनुवृत्तेः गुणो'र्ती'त्यत्र नित्यं यः संयोगादित्यस्यैव संयोगादिस्तस्यैव संयोगादिलक्षणो गुण इति लभ्यते। कृञ्तु न नित्यं संयोगादिः, संपरिपूर्वकत्वाऽभावे तदभावादिति भावः। अथ रुआंस्धातोर्भावलकारे यकि विशेषमाह– अनिदितामिति नलोप इति। इदितस्त्विति। `टु नदि समृद्धौ' इत्यस्माद्भावलकारे यकि इदित्त्वान्नलोपो नेत्यर्थः। अथ यजधातो कर्मलकारे यकि विशेषमाह– संप्रसारणमिति। `वचिस्वपियजादीना'मित्यनेनेति भावः। शीङ्धातोर्भावलकारे यकि विशेषमाह– अयडि\उfffद् क्ङितीति।

तत्त्वबोधिनी

479 चिण्भावकर्मणोः। `च्लेः सि'जित्यश्च्लेरिति, `चिण्ते पदः' इत्यतस्ते इति चानुवर्तते। तत्रत्यं तु चिण्ग्रहणं `न रुवः' इति निषेधेन तिरोहितमिति पुनरत्र चिण्ग्रहणं कृतम्। तशब्दे किम् ?। अभाविषाम्। चिण्वदिट इति। ण्यन्तस्य धातोरुपदेशाभावेऽप्युपदेशे योऽजिति व्याख्यानाच्चिण्वदिडिह प्रवर्तत एवेति भावः। परत्वादिति। चिण्विदिडपेक्षया। नित्यत्वादिति। न च कृते चिण्वदिटि वृद्धिप्रवृत्त्या गुणस्य नित्यत्वं नेति शङ्क्यम्, `अचो ञ्णिती' ति वृदिं?ध बाधित्वा परत्वाद्गुणे रपरत्वे च पश्चात् `अत उपधायाः' इति वृद्धिप्रवृत्त्या गुणस्य नित्यत्वाऽनपायात्। उपदेशग्रहणादिति। तत्सामथ्र्यादुपदेशे योऽच्, तदन्तत्वमृधातोव्र्यपदेशिवद्भावेन यत्स्थितं तदादाय ण्यन्तादप्यारितेत्यादौ चिण्वदिट् प्रवर्तत इति भावः। नन्वेवं स्मारितेत्यादिर्न सिध्येत्, `स्म' इत्यस्य उपदेशे योऽच् तदन्तत्वाऽभावात्। `उपदेशेऽजन्ताना'मिति व्याख्याने तु ण्यन्तस्य न स्यादित्युक्तत्वादिति चेत्। सत्यम्। अत एवाऽपरितोषामन्मनोरमायामुक्तम्– `अस्तु वा उपदेशे यदजन्तं तस्ये'ति व्याख्यानम्। `अङ्गस्ये'ति व्यधिकरणषष्ठी। `अङ्गावयवस्याजन्तस्येत्यर्थ' इति। एवं च णिजन्तेऽपि शामितेत्यादौ चिण्वदिट् सिध्यति, व्यपेशिवद्भावेन णिजेव णिजन्तः, तदवयवकं शामीत्यङ्गमित्याश्रयणात्। आरिता स्मारितेत्याद्यपि सिध्यति. ऋधातुः स्मृधातुश्चोपदेशेऽजन्तस्तदवयवकं भवत्यार् स्मारित्यङ्गमिति दिक्। नित्यग्रहणानुवृत्तेरिति। `नित्यं छन्दसी'ति सूत्रात्।

प्रथमावृत्तिः

TBD.

काशिका

यां तु –सुटो बहिरङ्गलक्षणस्याऽसिद्धत्वादभक्ताद्वा संयोगादिंत्वमङ्गस्य नास्तीति गुणोऽत्र न प्रवर्तत इत्युक्तम्। `सुट्कात्पूर्व' इति विधीयमानः कभक्तो, न त्वङ्गभक्तस्तेनाऽसंयोगाद्येव अङ्गमित्यभक्तत्वादित्यस्याशयः।

Satishji's सूत्र-सूचिः

वृत्ति: च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे । There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।)

उदाहरणम् – अभावि derived from √भू (भू सत्तायाम् १. १). विवक्षा is लुँङ्, भावे प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

भू + लुँङ् 3-2-110
= भू + ल् 1-3-2, 1-3-3, 1-3-9
= भू + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= भू + च्लि + त 3-1-43
= भू + चिण् + त 3-1-66
= भू + इ + त 1-3-3, 1-3-7, 1-3-9
= भू + इ 6-4-104, 1-1-61
= भौ + इ 7-2-115
= भावि 6-1-78
= अट् भावि 6-4-71, 1-1-46
= अभावि 1-3-3, 1-3-9

उदाहरणम् – अदायि derived from √दा (डुदाञ् दाने ३. १०). विवक्षा is लुँङ्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
दा + लुँङ् 3-2-110
= दा + ल् 1-3-2, 1-3-3, 1-3-9
= दा + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-13
= दा + च्लि + त 3-1-43
= दा + चिण् + त 3-1-66
= दा + इ + त 1-3-3, 1-3-7, 1-3-9
= दा + इ 6-4-104, 1-1-61
= दा युक् + इ 7-3-33, 1-1-46
= दायि 1-3-3, 1-3-9. The उकार: in युक् is उच्चारणार्थ:।
= अट् दायि 6-4-71, 1-1-46
= अदायि 1-3-3, 1-3-9