Table of Contents

<<3-1-56 —- 3-1-58>>

3-1-57 इरितो वा

प्रथमावृत्तिः

TBD.

काशिका

इरितो धातोः परस्य च्लेः अङादेशो वा भवति। भिदिर् अभिदत्, अभैत्सीत्। छिदिर् अच्छिदत्, अच्छैत्सीत्। परस्मैपदेषु इत्येव, अभित्त। अच्छित्त।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

113 इरितो वा। `धातोरेकाच' इत्यतो धातोरिति, `च्लेः सि'जित्यतश्च्लेरिति, `अस्यतिवक्तिख्यातिब्य' इत्यतोऽङिति, `पुषादिद्युतादी'त्यतः परस्मैपदेष्विति चानुवर्तते। तदाह–इरितो धातोरित्यादिना। अच्युतदिति। अङि सति ङित्त्वान्न गुणः। अच्युतताम् अच्युतन्। अच्युतः अच्युततम् अच्युतत। अच्युतम् अच्युताव अच्युताम। अङभावे त्वाह–अच्योतीदिति। `इट ईटी'ति सिज्लोपः। अच्योतिष्टामित्यादि। श्च्युतिरिति।च्युतिवद्रूपाणि। चुश्च्योतेति। `शर्पूर्वा' इति चकारः शिष्यते। यकाररहितोऽपीति। `मधुश्चुतं घृतमिव सुपूत'मित्यादौ तथा दर्सनादिति भावः। मन्थेति। विलोडलनम्– आस्फालनम्। मन्थतीत्यादि। सुगमम्। आशीर्लिङि विशेषमाह– यासुट इति। कुथीति। चत्वारोऽपि द्वितीयान्ताः। इदित्त्वान्नुमि कुन्थतीत्यादि सुगमम्। आशीर्लिङि यासुटः कित्त्वेऽपि इदित्त्वेन अनिदितामिति पर्युदासन्नलोपो नेत्याह- - इदित्त्वादिति। कुन्थ्यादिति। पुन्थ्यात् लुन्थ्यात् मन्थ्यात्। एतदर्थमेव मन्थदातोः पृथङ् मथीति निर्देशः। षिध गत्यामिति। अच्परकषकारादित्वात्षोपदेशोऽयम्। ततश्च धात्वादेरिति सः। तदाह–सेधतीति। सिषेधेति। आदेशसकारत्वात्षत्वम्। अनिट्सु श्यन्विकरमस्यैव सिधेग्र्रहणात्सेट्कोऽयम्। असेधीदिति। `इट इटी'ति सिज्लोपः। नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः। असेधिष्टामित्यादि। अथ निषेधतीत्यादौ `उपसर्गात्सुनोती'ति षत्वं वक्ष्यति तत्किमर्थम्, आदेशप्रत्ययो'रित्येव सिद्धेरित्याशङ्क्याह– सात्पदाद्योरिति।

तत्त्वबोधिनी

88 चुश्र्योतेति। `शर्पूर्वाः खयःर'। यकाररहितोऽप्ययमिति। तथा च प्रयुज्यते `मधुश्चुतं घृतमिव सुपूत'मिति। मन्थ। अयं त्रयादावपि। `षिध गत्याम्'। अयमुदिदिति केचित्। तत्तु सिध्यतिबुध्यत्योः श्यना निर्देशात् सिधितं बुधितमिति वृत्तिग्रन्थविरुद्धम्। उदित्त्वे हि `उदितो वे'ति क्त्वायामिड्विकल्पान्निष्ठायामिण्न स्यात्, `यस्य विभाषेति'निषेधात्। सिषेधेति। `आदेशप्रत्यययो'रिति षत्वम्।

Satishji's सूत्र-सूचिः

वृत्ति: इरितो धातोश्च्लेरङ् वा परस्मैपदेषु । When a परस्मैपदम् affix follows, the affix “च्लि” optionally takes the substitute “अङ्” when following a verbal root which is इरित् (which has “इर्” as a इत्।)

उदाहरणम् – अभिदत्/अभैत्सीत् derived from √भिद् (भिदिँर् विदारणे ७. २). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, परस्मैपद-प्रत्ययः।

भिद् + लुँङ् 3-2-110
= भिद् + ल् 1-3-2, 1-3-3, 1-3-9
= भिद् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= भिद् + ति 1-3-3, 1-3-9
= भिद् + त् 3-4-100
= भिद् + च्लि + त् 3-1-43
By 3-1-57, “च्लि” gets “अङ्”-आदेशः optionally. Let us first consider the case where the “अङ्”-आदेशः is applied.
= भिद् + अङ् + त् 3-1-57. Note: Since “अङ्” is a ङित्-प्रत्ययः, 1-1-5 stops 7-3-86.
= भिद् + अ + त् 1-3-3, 1-3-9
= अट् भिद् + अ + त् 6-4-71, 1-1-46
= अ भिद् + अ + त् 1-3-3, 1-3-9
= अभिदत्

Now, let us consider the case where the optional “अङ्”-आदेशः is not applied.

भिद् + च्लि + त्
= भिद् + सिँच् + त् 3-1-44
= भिद् + स् + त् 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 blocks 7-2-35
= भिद् + स् + ईट् त् 7-3-96, 1-1-46
= भिद् + स् + ईत् 1-3-3, 1-3-9
= भैद् + स् + ईत् 7-2-3
= अट् भैद् + स् + ईत् 6-4-71, 1-1-46
= अ भैद् + स् + ईत् 1-3-3, 1-3-9
= अभैत्सीत् 8-4-55