TBD.
द्युतादिभ्यश्च धातुभ्यः परस्य च्लेः परस्मैपदेषु परतः अङादेशो भवति। पुषादिर् दिवाद्यन्तर्गणो गृह्यते, न भ्वादिक्र्याद्यन्तर्गणः। पुष अपुषत्। द्युतादि अद्युतत्। अश्वितत्। ल्\उ0325दिद्भ्यःगम्ल्\उ0325 अगमत्। शक्ल्\उ0325 अशकत्। परस्मैपदेसु इति किम्? व्यद्योतिष्ट। अलोटिष्ट।
TBD.
509 श्यन्विकरणपुषादेर्द्युतादेरॢदितश्च च्लेरङ् परस्मैपदेषु. अगमत्. अगमिष्यत्..इति परस्मैपदिनः.एध वृद्धौ.. 1..
182 लुङि च्लेः सिचि प्राप्ते–पुषादि। `च्लेः सि'जित्यतः च्लेरिति, `अस्यतिवक्तिख्यातिभ्यः' इत्यतोऽङिति चानुवर्तते। पुषादि द्युतादि लृदित् एषां समाहारद्वन्द्वत्पञ्चमी। तत्र पुषधातुस्तु भ्वादौ क्र्यादौ चुरादौ दिवादौ चास्ति। तत्र यदि भौवादिकः पुषादिगमो गृह्रेत तर्हि द्युतादिग्रहणमनर्थकं स्यात्, पुषादिगणोत्तरमेवात्र द्युतादिगणपाठात्। नापि क्र्याद्यन्तर्गणः। तत्र ह `मुष स्तेये' `खच भूतप्रादुर्भावे' `हेठ च ' `ग्रह उपादाने' इति चत्वार एव पठ\उfffद्न्ते। यदि त एवात्र पुषादयो विवक्षिताः स्युत्ततर्हि लाघवात् लृदित एव ते क्रियेरन्। नाप्यत्र चौरादिकः पुषादिर्गृह्रते, णिचा च्लेव्र्यवहितत्वात्। अतः परिशेषाद्दिवाय एव गृह्रन्ते। तदाह–श्यन्विकरमेति। जर्ज चर्च झर्झेति। एतेषां चवर्गीयान्तेष्वेव पाठ उचितः। हसे हसन इति। एदिदयम्। न वृद्धिरिति। `ह्म्यन्तेत्यनेने'ति शेषः। णिश समाधाविति। णोपदेशत्वनादुपसर्गादसमासेऽपीति नस्य णत्वम्। तदाह– प्रणेशतीति। `शसु हिंसाया'मित्यतः प्राक् शकारान्ताः। शवतिस्तु वान्तः। शंस्विति। नोपधः। कृतानुस्वारस्य निर्देशः। `चह परिकल्पने' इत्यारभ्य अर्हतिपर्यन्ता हकारान्ताः। रह त्यागे इति। न#आऽयमिदित्। रहि गताविति। अयमिदित्। दृह दृहीति। ऋदुपधा एते। द्वितीयचतुर्थाविदितौ। अवृहत्। अवर्हीदिति। इरित्त्वादङ्?विकल्प इति भावः। उवोहेति। उहिधातोर्लिटि द्वित्वे हलादिशेषे पुगन्तलक्षणे गुणे `अभ्यासस्यासवर्णे' इत्युवङ्। मा भवानुहदिति। इरित्त्वादङि रूपम्। औहीदिति। अङभावपक्षे च्लेः सिचि तस्य इटि `अस्तिसिचः' इति तकारस्य ईटि `इट ईटी'ति सिचो लोपे `आडजादीना'मिति आटि वृद्धिः। माङ्योगे तु मा भवानुहीत्। आनर्हेति। `अत आदेः' इति दीर्घे नुट्। कृपूपर्यन्ता इति। `द्युते'त्यारभ्य कृपूपर्यन्ता इत्यर्थः।
155 पुषादिद्युता। पुष धातुर्भ्वादौ दिवादौ क्र्यादौ चुरादौ च पठ\उfffद्ते। यदि तु `पुष पुष्टा' विति भौवादिकधातुमारभ्य पुषादिगणो गृह्रेत तदा द्युतादिग्रहणमनर्थकं भवेत्, पुषेरुत्तरत्र द्युतादीनां पाठात्। नापि क्राद्यन्तर्गणः, तत्र हि पुषधातोरग्रे `मुष स्तेये', `खच भूतप्रादुर्भावे' `हेठ च' `ग्रह उपादाने' इति चत्वार एव पठ\उfffद्न्ते। यदि तु त एव जिघृक्षिताः स्युस्तर्हि लाघवाल्लृदित एव क्रियेरन्। ग्रहेः स्वरितेत्त्वेऽपि लृकारेणैव तन्निर्वाहादनेकानुबन्धासङ्गगौरवशङ्काया अप्यभावात्। नापि चुरादिः, णिचा व्यवधानेन ततोऽन्यतरस्य च्लेरसंभवात्। अतः परिशेषाद्दिवादय एव गृह्रन्त इत्याह- - श्यन्विकरणपुषादेरिति। केचित्तुदिवाद्यन्तर्गत एव पुषादिर्गृह्रते, व्याख्यानादित्याहुः। चुरादीनां सर्वेषां णिज्वकल्प इति पक्षे चौरादिकपुषादेरपि परः च्लिः संभवतीति तेषामाशयः। `नन्दिग्रहिपचादिभ्यः' इतवत् `पुषद्युताद्यलृदितः' इति सूत्रयितुमुचितम्। ननु पुषादयो द्युतादयश्च लृदित एव कुतो न कसृता इति चेत्। अत्राहुः– निरनुबन्धेषु सानुबन्धेषु च प्रत्येकं लृकारपाठे विपरीत गौरवं स्यात्। न च अनुबन्धान्तरस्य यत्प्रयोजनमात्मनेपदं तत्तु लृदित्करण#एऽपि सिध्यतीत्यनेकानुबन्धासङ्गगौरवदोषो नास्तीत्यपि शङ्क्यम्। आदितामीदितामूदितां च तेषु सत्त्वात्लृकारेण तत्तत्कार्यामामनिर्वाहादनेकानुबन्धासङ्गगौरवस्य दुर्निवारत्वादिति। जर्ज चर्च झर्झ। एषां परिभाषणादिभिः सह यथासङ्ख्यं नास्ति, व्याख्यानादित्याहुः। परिभाषणं सनिन्दोपालम्भः। त्रयाणामपि चवर्गीयान्तेषु पाठ उचितो, न त्विहोष्मान्तेषु। णिश समाधौ। समाधिः– अन्तः करणनिरोधः। प्रणेशतीति। `उपसर्गादसमासेऽपीति णत्वम्। रोषकृते चेति। चकारात्समादौ। शश प्लुतगतौ। `नशसददे'ति प्रतिषेधसूत्रे सान्तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे– शेशतुरिति। प्राचा तु `शशशतु'रित्युक्तं , तदयुक्तमिति भावः। अचहीदिति। `हयन्ते'ति न वृद्धिः। रह त्यागे। अयं कथादावपि। `ज्ञप मिच्चे' ति मित्प्रकरणेऽप्ययमेकीयमतेन पठितः। नेच्छन्तीति। व्याख्यानमेवात्रावलम्बनम्। माभवानुहदिति। `न माङ्योगे' इत्याडभावः। `इरितो वे'त्यङ्वा। अत द्युतादिः। द्युत दीप्तौ।
वृत्ति: श्यन्विकरणपुषादेर्द्युतादेर्ऌदितश्च च्लेरङ् परस्मैपदेषु । When a परस्मैपदम् affix follows, the affix “च्लि” is replaced by “अङ्” when following either -
i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
ii) a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।
Example continued from 2-4-37
घस् + च्लि + त्
= घस् + अङ् + त् 3-1-55. Note: 6-4-98 does <strong>not</strong> apply here because of the exclusion अनङि।
= घस् + अ + त् 1-3-3, 1-3-9
= अट् घस् + अ + त् 6-4-71, 1-1-46
= अघसत् 1-3-3, 1-3-9
Similarly अगमत् is derived from √गम् (गमॢँ गतौ १. ११३७). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।