Table of Contents

<<3-1-51 —- 3-1-53>>

3-1-52 अस्यतिवक्तिख्यातिभ्योऽङ्

प्रथमावृत्तिः

TBD.

काशिका

असु क्षेपने, वच परिभाषणे ब्रूञादेशो वा, ख्या प्रकथने चक्षिङादेशो वा, एभ्यः परस्य च्लेरङादेशो भवति कर्तृवाचिनि लुगि परतः। अस्यतेः पुषादिपाठादेवाङि सिद्धे पुनर् ग्रहणम् आत्मनेपदार्थम्। पर्यास्थत, पर्यास्थेताम्, पर्यास्थन्त। वक्ति अवोचत्, अवोचताम्, अवोचन्। ख्याति आख्यत्, आख्यताम्, आख्यन्। कर्तरि इति किम्? पर्यासिषातां गावौ वत्सेन।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

600 एभ्यश्चलेरङ् स्यात्..

बालमनोरमा

269 अस्यतिवक्ति। `च्लेः सिजित्यतश्च्लेरित्यनुवर्तते। तदाह–एभ्यश्च्लेरिति। अस्यत् अस्यतेति। यत्वपक्षे रूपम्। आल्लोपः। ञित्त्वादुभयपदित्वादात्मनेपदेऽपि रूपम्। क्शादेशपक्षे परस्मैपदपक्षे तु आह– अक्शासीदिति। अङ्?विधौ ख्यातीति आत्मनेपदे लुङि रूपम्। अक्शासातामित्यादि। अख्यास्यत् अख्यास्यत। अक्सास्यत्। अक्शास्यत। वर्जने क्शाञ् नेष्ट इति। इत्येतत्पर्यन्ता इत्यर्थः। ईर् गसाविति। सेट्। ईर्ते इति। ईराते ईरते। ईर्षे ईराधेईर्ध्वे। ईरे ईर्वहे ईर्महे। ईराथामित्यपि ज्ञेयम्। ईध्र्वमिति। ई रै ईरावहै ईरामहै। ऐर्त ऐराताम् ऐरत। ऐर्याः ऐराथाम् ऐध्र्वम्। ऐरि ऐर्वहि ऐर्महि। ईरीत। ईरिषीष्ठ। ऐरिष्ठ। ऐरिष्यत। ईड स्तुतौ। ईद्वे इति। तकारस्य ष्टुत्वेन टः, जस्य चर्त्वेन ट इति भावः। ईडाते ईडते। ईड्-से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते–

तत्त्वबोधिनी

235 वक्तीति। `ब्राउवो वचिः' `वच परिभाषणे' इति उभयोग्र्रहणम्। ईर। ईरिता। ईरिष्यते। लङि। एर्त। ऐराताम्। ऐरत। ऐरि। ऐर्वहि। ऐर्महि।

Satishji's सूत्र-सूचिः

वृत्ति: एभ्यश्च्लेरङ् स्यात् कर्तरि लुँङि । In the active voice, the affix “च्लि” takes the substitute “अङ्” when following the verbal root √अस् (असुँ क्षेपणे ४. १०६), √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) ref: 2-4-53) or √ख्या (the substitute “ख्याञ्” which comes in place √चक्ष् (चक्षिँङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७) ref: 2-4-54).

उदाहरणम् – अवोचत् derived from √वच् (वचँ परिभाषणे २. ५८). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

वच् + लुँङ् 3-2-110
= वच् + ल् 1-3-2, 1-3-3, 1-3-9
= वच् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वच् + ति 1-3-3, 1-3-9
= वच् + त् 3-4-100
= वच् + च्लि + त् 3-1-43
= वच् + अङ् + त् 3-1-52
= वच् + अ + त् 1-3-3, 1-3-9

Example continued under 7-4-20