Table of Contents

<<3-1-52 —- 3-1-54>>

3-1-53 लिपिसिचिह्वश् च

प्रथमावृत्तिः

TBD.

काशिका

लिप उपदेहे षिच क्षरने, ह्वेञ् स्पर्धायाम्, एतेभ्यश्च परस्य च्लेः अङादेशो भवति। अलिपत्। असिचत्। आह्वत्। पृथग्योग उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

658 एभ्यश्च्लेरङ् स्यात्. असिचत्..

बालमनोरमा

249 लिपिसिचि। लिपि सिचि ह्वा एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम्। `च्लेः सि'जित्यतश्च्लेरिति, `अस्यतवक्तिख्यातिभ्यः' इत्यतोऽङिति चानुवर्तते। तदाह–एभ्य इति। इदं परस्मैपदविषयम्, आत्मनेपदे विकल्पविधानात्। तदाह–

तत्त्वबोधिनी

220 लिपिसिचि। लिप उपदेहे। षिच क्षरणे।अलिपत्। असिचत्।

Satishji's सूत्र-सूचिः

TBD.