Table of Contents

<<3-1-37 —- 3-1-39>>

3-1-38 उषविदजागृभ्यो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

उष दाहे, विद ज्ञाने, जगृ निद्राक्षये, एतेभ्यो लिटि परतो ऽन्यतरस्याम् आम् प्रत्ययो भवति। ओषाञ्चकार, उवोष। विदाञ्चकार, विवेद। जागराञ्चकार, जजागार। विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

572 एभ्यो लिटि आम्वा स्यात्. विदेरन्तत्वप्रतिज्ञानादामि न गुणः. विदाञ्चकार, विवेद. वेदिता. वेदिष्यति..

बालमनोरमा

180 उषविद। `कास्प्रत्यया' दित्यत आम् लिटीत्यनुवर्तते। तदाह–एभ्यो लिटीति। आमभावपक्षे आह— उवोषेति। `अभ्यासस्याऽसवर्णे' इति उवङादेशः। जिषु विषु मिषु सेचन इति। द्वितीयो दन्त्योष्ठ\उfffदादिः। थलि वसि मसि च विशेषमाह–क्रादिनियमादिडिति। विवेषिथेति। अजन्ताकारवत्त्वाऽभावेन भारद्वाजनियमाऽप्रवृत्तेस्थल्यपि क्रादिनियमान्नित्यमिट्। वेष्टेति। तासि ष्टुत्वेन तकारस्य टः। वेक्ष्यतीति। `षढो'रिति षस्य कः, सस्य षः। अविक्षदिति। `शल इगुपधा'दिति क्सः, षस्य कः, सस्य षः, कित्त्वान्न गुणः। पुषधातु सेडिति मत्वाह– पोषितेति। अपोषीदिति। `नेटी'ति वृद्धिनिषेधः। नन्विट्सु पुषेः पाठात् कथं सेट्कत्वमित्यत आह—अनिट्केष्विति। अत इति। सेट्कत्वात् क्सो नेत्यर्थः। ननु पुषादित्वलक्षणः अङ्कुतो नेत्यत आह- - अङ्विधाविति। एतच्चानुपदमेव पुषादिसूत्रव्याख्यावसरे स्पष्टीभविष्यति। अयमपीति। पुषधातुवत् श्लिषधातुरपि भौवादिकः सेडित्यर्थः। कैयटादय इति। `श्लिष आलिङ्गने' इति सूत्रे कैयटहरदत्तादिभिस्तथा प्रपञ्चितत्वादिति भावः। द्वयोग्र्रहणमिति। भौवादिकदैवादिकयोरित्यर्थः। स्वोक्तीति। `श्लिष आलिङ्गने' इति सूत्रे दैवादिकश्लिषेरनिट्केषु ग्रहणमिति न्यासकृता कैयटादिभिश्चोक्तत्वादिति भावः। पृषु वृषु इत्यारभ्य ह्मषुपर्यन्ता ऋदुपधाः। अलीकं– मिथ्याभवनं, मिथ्योक्तिर्वा। तुस ह्यसेत्यारभ्य णश गतावित्यतः प्राक् सकारान्ताः। घस्लृ धातुरनिट्कः। अयमिति। घस्लृधातुः, सर्वेषु न प्रयोज्य इत्यर्थः। कुत इत्यत आह–लिटीति। यद्ययं सार्वत्रिकः स्यात्तदा लिट\उfffद्पि प्रयुज्येत ततश्च `अद भक्षणे' इति धातोर्लिट\उfffज्ञतरस्यामिति घस्लृभावविधिव्र्यर्थः स्यादिति भावः। असार्वत्रिकत्वे सति क्व प्रयोगः क्व नेत्यत आह–ततश्चेति। यत्र घस्लृधातोः प्रयोगे ज्ञापकं प्रत्यक्षवचनं वास्ति तत्रैवास्य प्रयोग इत्यर्थः। ततर् तावल्लिङ्गं दर्शयति– अत्रैवेति। भ्वादिगणे अत्रैव क्रमे अस्य पाठः शपि परस्मैपदे प्रयोगे लिङ्गमित्यर्थः। न च धातुसंज्ञार्थः पाठ इति शङ्क्यं, द्युत दीप्तावित्यतः प्राक्। [`अनुदात्तेत इत्यतोग्रे'[ पाठेनैव सिद्धे अत्र क्रमे तत्पाठवैयथ्र्यादिति भावः। लृदित्करणमङीति। `प्रयोगे लिङ्ग'मिति शेषः। अनिट्कारिकास्विति। अनुदात्तोपदेशेषु घस्लृधातोः पाठो वलाद्याद्र्धधातुके प्रयोगे लिङ्गमित्यर्थः। अथ क्वचिदस्य प्रयोगे प्रत्यक्षवचनं दर्शयति– क्मरचीति। `सृघस्यदः क्मरः' जित्यत्र विशिष्य घसेरुपादानं क्मरचि प्रयोगे प्रमाणमित्यर्थः। घसतीति। लटि तसाद्युपलक्षममिदम्। लिटि अस्य प्रयोगाऽभावाल्लुट\उfffद्दाहरति– घस्तेति।

तत्त्वबोधिनी

153 उवोषेति। `पुगन्ते'ति गुणः। `अब्यासस्याऽसवर्णे' इत्युवङ्। घृषु संघर्षे। ल्युटि – घर्षणम्। घस्लृ अदने। अयमिति। यद्ययं सार्वत्रिकः स्यात्तदा लिट\उfffद्पि प्रयुज्येत, ततश्च `लिट\उfffज्ञतरस्या'मिति विकल्पेनादेशविधानं व्यर्थं भवेदिति भावः। अत्रैव पाठ इति। भ्वादौ परस्मैपदे पाठ इत्यर्थः। क्मरचीति। `सृघस्यदः क्मर' जिति सूत्रे।

Satishji's सूत्र-सूचिः

TBD.