TBD.
गतिवचनाद् धतोः कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययो भवति। कुटिलं क्रामति चङ्क्रम्यते। दन्द्रम्यते। नित्यग्रहणं विषयनियमार्थं, गतिवचनान् नित्यम् कौटिल्य एव भवति, न तु क्रियासमभिहारे। भृशं क्रामति।
TBD.
716 गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे..
–
401 नित्यं कौटिल्ये। `नित्यं' शब्दोऽवधारणार्थक इत्याह– कौटिल्य एवति। तक्रकौण्डिन्यन्यायेनैवेष्टे सिद्धे नित्यग्रहणं तस्य न्यायस्याऽनित्यत्वज्ञापनार्थम्। तेन `मतिबुद्धिपूजार्थेभ्यश्चे'ति वर्तमाने क्तेनाऽबाधनात्पूजार्थेभ्यो भूते क्तः सिध्यति। ततश्च `क्तस्य च वर्तमाने' इति षष्ठी न प्रवर्तत इति `पूजितो यः सुरासुरै'रिति तृतीया साधुरेव। इत्यादीति। जंजभ्यते। दंदह्रते। दंदश्यते। बंभज्यते। `पस'धातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति स्पश बाधनस्पर्सनयोरित्यत्र माधवः। पंपस्यते। काशिकायां तु तालव्यान्तः क्वचिद्दृश्यते। एवं जञ्?जभीति। दन्दहीतीत्यादि यङ्लुकि उदाहर्तव्यम्।
वृत्तिः गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । Following a verbal root used to denote motion, the affix “यङ्” is prescribed only in the sense of crookedness (and not in the sense of repetition or intensity.)
उदाहरणम् – कुटिलं गच्छति = जंगम्यते/जङ्गम्यते – is derived from √गम् (गमॢँ गतौ १. ११३७) to denote crookedness (in motion.)
The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
गम् + यङ् 3-1-23
= गम् + य 1-3-3, 1-3-9
= गम्य् गम्य 6-1-9
= जम्य् गम्य 7-4-62
= ज गम्य 7-4-60
= जंगम्य 7-4-85, 1-1-46. Note: नुकानुस्वारो लक्ष्यते।
Note: 7-4-83 does not apply here because the कित् augment “नुक्” has been added to the अभ्यासः।
Example continued under वार्तिकम् under 7-4-85