TBD.
एकाज् यो धातुर् हलादिः क्रियासमभिहारे वर्तते तस्माद् यङ् प्रत्ययो भवति। पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः। नः पुनः पचति पापच्यते। यायज्यते। भृशं ज्वलति जाज्वल्यते। देदीप्यते। धातोः इति किम्? सोपसर्गादुत्पत्तिर् मा भूत्, भृशं प्राटति। एकाचः इति किम्? भृशं जागर्ति। हलादेः इति किम्? भृशमीक्षते। सूचिसूत्रमूत्र्यट्यर्त्यशूर्णोतीनां ग्रहनं यङ्विधानवेकाजहलाद्यर्थम्। सोसूच्यते। सोसूत्र्यते। मोमूत्र्यते। अटाट्यते। अरार्यते। अशाश्यते। प्रोर्णोनूयते। भृशं शोभते, भृशं रोचते इत्यत्र नेष्यते, अनभिधानात्।
TBD.
714 पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्यात्..
–
–
वृत्तिः पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्यात् । The affix “यङ्” is prescribed after a consonant-beginning mono-syllabic verbal root to denote an action done repeatedly or intensely.
उदाहरणम् – पुनः पुनर्भृशं वा भवति = बोभूयते – is a frequentative/intensive form derived from √भू (भू सत्तायाम् १. १).
The विवक्षा is लँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
भू + यङ् 3-1-22
= भू + य 1-3-3, 1-3-9. Note: The affix “यङ्” is a ङित्। Hence 1-1-5 stops 7-3-84 from applying. Since the affix “यङ्” does not begin with a वल् letter 7-2-35 does not apply here.
= भूय् भूय 6-1-9
= भू भूय 7-4-60
= भु भूय 7-4-59
Example continued under 7-4-82