Table of Contents

<<3-1-19 —- 3-1-21>>

3-1-20 पुच्छभान्डचीवराण् णिङ्

प्रथमावृत्तिः

TBD.

काशिका

करणे इति वर्तते। पुच्छ भाण्ड चीवर इत्येतेभ्यो णिङ् प्रत्ययो भवति करणविशेषे। पुच्छादुदसने पर्यसने वा। उत्पुच्छयते। परिपुच्छयते। भाण्डात् समाचयने। सम्भान्डयते। चीवरादर्जने परिधाने वा। सञ्चीवरयते भिक्षुः। ङकार आत्मनेपदार्थः। णकारः सामान्यग्रहणार्थः, णेरनिटि 6-4-51 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

501 पुच्छभाण्ड। पुच्छादुदसने इति वार्तिकम्। उत्पुच्छयते इति। विविधं विरुद्धं वा पुच्छमुत्क्षिपतीत्यर्थः। भाण्डात्समाचयने - इत्यपि वार्तिकम्। समबभाण्डतेति। उपसर्गसमानाकरां पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते इत्युक्तत्वात्संभाण्डशब्दात्क्यङ्यपि भाण्डशब्दात्प्रागेवाऽडिति भावः। एवम् उदपुपुच्छतेत्यादावपि। चीवरादर्जने इत्यपि वार्तिकम्।

तत्त्वबोधिनी

429 पुच्छभाण्ड। `करणे' इत्यनुवृत्तेरत्रापि क्रियाविशेष एव णिङ्। तमेव विशेषं दर्शयति– पुच्चादित्यादिना। ङकारोऽत्र `णेरनिटी'ति णिङ्णिचोः सामान्यग्रहणार्थो, नित्यात्मनेपदार्थश्च। उदपुपुच्छत।

Satishji's सूत्र-सूचिः

TBD.