Table of Contents

<<3-1-18 —- 3-1-20>>

3-1-19 नमोवरिवश्चित्रङः क्यच्

प्रथमावृत्तिः

TBD.

काशिका

करणे इति वर्तते। नमस् वरिवस् चित्रङित्येतेभ्यो वा क्यच् प्रत्ययो भवति, करणविशेषे पूजादौ। नमसः पूजायाम् नमस्यति देवान्। वरिवसः परिचर्यायाम् वरिवस्यति गुरून्। चित्रङ आश्चर्ये चित्रीयते। ङकार आत्मनेपदार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

500 नमोवरिवस्। नमस्, वरिवस्, चित्रङ् एषां समाहारद्वन्द्वात्पञ्चमी। आत्मनेपदार्थं चित्रशब्दो ङिन्निर्दिष्टः। `शब्दवैरे'त्यतः करणे इत्यनुवर्तते। करणं - क्रिया। सा च पूजापरिचर्याऽऽश्चर्यात्मिका विवक्षिता, `नमसः पूजायां'वरिवसः कारकविभक्तेर्बलीयस्त्वाद्द्वितीया। परिचर्या शुश्रूषेति मत्वाह– शुश्रूषते इत्यर्थ इति। आश्चर्यशब्दो विस्मयवाचीति मत्वाह- विस्मयते इत्यर्थ इति। विस्मापयते इत्यन्ये इति। आश्चर्यशब्दो विस्मापनपर इति भावः। `ततश्चित्रीयमाणोऽसा'विति भट्टिः। असौ– मायामृगो विस्मयमुत्पादयन्नित्यर्थः।

तत्त्वबोधिनी

428 नमोवरिवः। चित्रङः क्य्जविधानामीत्वार्थं, ङित्करणं तु तङर्थम्। विस्मापयत इत्यन्य इति। तथा च भट्टिः– `ततश्चित्रीयमाणोऽसौ' इति। असौ = मायामृगश्चित्रीयमाणो = विस्मयमुत्पादयन्नित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.