Table of Contents

<<3-1-17 —- 3-1-19>>

3-1-18 सुखादिभ्यः कर्तृवेदनायाम्

प्रथमावृत्तिः

TBD.

काशिका

कर्मग्रहणसनुवर्तते। सुख इत्येवम् आदिभ्यः कर्मभ्यः वेदनायाम् अर्थे ऽनुभवे क्यङ् प्रत्ययो भवति, वेदयितुश्चेत् कर्तुः सम्बन्धीनि सुखादीनि भवन्ति। सुखं वेदयते सुखायते। दुःखायते। कर्तृग्रहणं किम्? सुखं वेदयते प्रसाधको देवदत्तस्य। सुख। दुःख। तृप्त। गहन। कृच्छ्र। अस्र। अलीक। प्रतीप। करुण। कृपण। सोढ। सुखादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

499 सुखादिभ्यः। `कर्मणो रोमन्थे'त्यतः कर्मग्रहणाऽनुवृतिं?त मत्वा आह– एभ्यः कर्मभ्य इति। वेदनायामिति। ज्ञाने इत्यर्थः। कर्तृत्वं च वेदनां प्रत्येव विवक्षितम्, उपस्थितत्वात्। वेदनाकर्तृवृत्तिवाचिभ्यः सुखादिशब्देभ्य इति लभ्यते। फलितमाह– वेदनाकर्तुरेव चेदिति। सुखं वेदयते इति। जानातीत्यर्थः। `विद चेतनाया'मिति चुरादौ।

तत्त्वबोधिनी

427 सुखादिभ्यः। `कर्तु' इति पृथक्पदं लुप्तषष्ठीकम्। `विद चेतनाख्याननिवासेष्वि'ति चौरादिकाद्युचि `वेदना'शब्दो ज्ञानवाची, तदपेक्षमेव कर्तृत्वम्। कर्ता च सुखादिभिरन्वेति। तदेतदाह— वेदनाकर्तुरेवेति। परस्य सुखमिति। इह यन्निष्ठं सुकं तद्भिन्नो वेदनाकर्तेति वाक्यमेव। सुखादयः सुखदुःखतृप्रकृच्छ्रादयः।

Satishji's सूत्र-सूचिः

TBD.