Table of Contents

<<3-1-16 —- 3-1-18>>

3-1-17 शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे

प्रथमावृत्तिः

TBD.

काशिका

शब्द वैर कलह अभ्र कन्व मेघ इत्येतेभयः करणे करोत्यर्थे क्यङ् प्रत्ययो भवति। शब्दम् करोति शब्दायते। वैरायते। कलहायते। अभ्रायते। कण्वायते। मेघायते। सुदिनदुर्दिननीहरेभ्यश्चेति वक्तव्यम्। सुदिनायते। दुर्दिनायते। नीहारायते। अटाट्टाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यम्। अटायते। अट्टायते। शीकायते। कोटायते। पोटायते। सोटायते। प्रुष्टायते। प्लुष्टायते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

732

बालमनोरमा

498 शब्दवैर। करणं - क्रिया। तदाह– करोत्यर्थे इति। `तत्करोती'ति णिचोऽपवादः। पक्षे इति। कदाचिदित्यर्थः। न्यास इति। भाष्याऽनारूढत्वमत्र अरुचिबीजम्।

तत्त्वबोधिनी

426 शब्दवैर। कर्मण इत्यनुवर्तत इत्याह– एभ्यः कर्मभ्य इति।

Satishji's सूत्र-सूचिः

TBD.