Table of Contents

<<3-1-148 —- 3-1-150>>

3-1-149 प्रुसृल्वः समभिहारे वुन्

प्रथमावृत्तिः

TBD.

काशिका

प्रु सृ लू इत्येतेभ्यः धातुभ्यः समभिहारे वुन् प्रत्ययो भवति। प्रवकः। सरकः। लवकः। समभिहारग्रहणेन अत्र सधुकारित्वं लक्ष्यते। साधुकारिणि वुन् विधानात् सकृदपि यः सुष्ठु करोति तत्र भवति। बहुशो यो दुष्टं करोति तत्र न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

728 प्रुसृल्वः। लक्ष्यते इति। एतच्च भाष्ये स्पषमट्। प्रु, सृ, लू एषां समाहारद्वन्द्वात्पञ्चमी।

तत्त्वबोधिनी

608 प्रुसृल्वः। पञ्चमीस्थाने व्यत्ययेन जस्। `ओः सुपी'ति यण्। लक्ष्यत इति। भूयः सहचारात्। यो हि यां क्रियां पुनः पुनरनुभवति स तत्र प्रायेण कौशलं लभते, तेन सकृदपि यःसुष्टु करोति तत्र वुन्, यस्तु बहुशोऽपि दुष्टं करोति तत्र नेति भावः।

Satishji's सूत्र-सूचिः

TBD.