TBD.
रोमन्थशब्दात् तपःशब्दाच् च कर्मणो यथाक्रमं वर्तिचरोरर्थयोः क्यङ् प्रत्ययो भवति। रोमन्थं वर्तयति रोमन्थायते गौः। हनुचलने इति वक्तव्यम्। इह मा भूत्, कीटो रोमन्थं वर्तयति। तपसः परस्मैपदम् च। तपशचरति तपस्यति।
TBD.
–
496 कर्मणो रोमन्थ। वृतुधातोण्र्यन्तात् `धात्वर्थनिर्देशे इग्वक्तव्यः' इति इकि वर्तिशब्दः। आवर्तनमर्थः। चरेः संपदादित्वाद्भावे क्विप्। वर्ति चर अनयोद्र्वन्द्वात्सप्तमी। आवर्तने चरणे चेति लभ्यते। कर्मशब्देन कर्मकारकं विवक्षितम्। तपोभ्यामिति। रोमन्थमिति। उद्गीर्णस्य निगीर्णस्य वा मन्थो रोमन्थ इति भाष्यम्। उद्गीर्णस्य = उदरादुपरि कण्ठ्दवारा निर्गतस्य, निगीर्णस्य = अपानद्वारा निर्गतस्य च मन्थः = चर्वणं रोमन्थ इत्यर्थः। वर्तयतीति। आवर्तयतीत्यर्थः। हनुचलन इति। हनु = तालु, तच्चलने सत्येव अयं विधिरित्यर्थः। तथा च उदरगतं भक्षितं द्रव्यं तृणादिकं पुनःपुनराकृष्य तालुचलनेन चूर्णितस्य पुनः पुनः प्राशने रोमन्थशब्दात्क्यङिति फलितम्। तदाह– चर्वितस्येति। हनुचलनेन भक्षितस्य उदरं प्रविष्टस्य पुनः पुनराकृष्य हनुचलनेन भक्षणे गम्ये इति फलितमित्यर्थः। कीट इति। इह हनुचलनाऽभावान्न क्यङिति भावः। तदेवोपपादयति–अपानेति। तपसः परस्मैपदं चेति- - वार्तिकम्। तपश्शब्दः कर्मकारकवृत्तिः पूर्वसूत्राच्चरणे क्यङं लभते, ङित्त्वप्रयुक्तमात्मनेपदं बाधित्वा परस्मैपदमेव च लभते इत्यर्थः। तपस्यतीति। प्रातिपदिकादेवास्य क्यङुत्पत्तेरन्वर्वर्तिविभक्त्यभावात् `नः क्ये' इति नियमाच्च पदत्वाऽभावान्न रुत्वमिति भावः।
425 कर्मणो। `रोमन्थतपोभ्या'मित्यनेन सामानाधिकरण्यात्कर्मण इति पञ्चमी। प्रत्येकं संबन्धादेकवचनमित्याह– कर्मभ्यामिति। वर्तनायां चरण इति। सूत्रे `वर्ती'ति ण्यन्ताद्वृतेः `ण्यासश्रन्थे'ति युचं बाधित्वाऽस्मादेव निपातनात्क्तिन्। चर्तेस्तु संपदादित्वाद्भावे क्विबिति भावः। केचित्तु वर्तिशब्दो वर्तयतेः `इक्श्तिपौ' इति इकि रूपम्। लक्षणया चाऽर्थलाभ इत्याहुः।
TBD.