Table of Contents

<<3-1-141 —- 3-1-143>>

3-1-142 दुन्योरनुपसर्गे

प्रथमावृत्तिः

TBD.

काशिका

दुनोतेर् नयतेश्च अनुपसर्गे णप्रत्ययो भव्ति। दुनोति इति दावः। नयति इति नायः। अनुपसर्गे इति किम्? प्रदवः। प्रणयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

721 दुन्योरनुपसर्गे। दुनोतेर्नयतेश्चेत्यर्थः। `दव'शब्दं साधयितुमाह– नी साहचर्यादिति। नीञ्धातुः सानुबन्धकः, तत्साहचर्यात् `टु दु उपतापे' इति स्वादिगणस्थादेव णप्रत्यय इत्यर्थः। दवतेस्त्विति। `दु द्रु गतौ' इति भौवादिकान्निरनुबन्धकात्पचाद्यजित्यर्थः।

तत्त्वबोधिनी

601 दुनोतेरिति। टुदु उपतापे इत्यस्मात्। दवतेरिति। दु गतावित्यस्मात्। दव इति। `दवदावौ वनारण्यवह्नी' इत्यमरः।

Satishji's सूत्र-सूचिः

TBD.