TBD.
अनुपसर्गातिति, विभाषा इति च निवृत्तम्। श्यैङः, आकारान्तेभ्यश्च धातुभ्यः, व्यध आस्रौ संस्रौ अतीणवसा अवहृ लिह श्लिष श्वस इत्येतेभ्यश्च ण प्रत्ययो भवति। आकारान्तत्वादेव श्यायतेः प्रत्यत्ये सिद्धे पुनर् वचनं बाधकबाधनार्थम्। उपसर्गे कं बाधित्वा ऽयम् एव भवति। अवश्यायः। प्रतिश्यायः। दायः। धायः। व्याधः। आस्रावः। संस्रावः। अत्यायः। अवसायः। अवहारः। लेहः। श्लेषः। श्वासः।
TBD.
–
720 श्याद्व्यधारुआउ। श्या, आत् , व्यध, आरुआउ, संरुआउ, अतीण्, अवसा, अवह्म, लिह, श्लिष, स्वस् एषामेकादशाद्यां समाहारद्वन्द्वात्पञ्चमी। अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रेऽनुपसर्गग्रहणात्। एवं च तत्सम्बद्धं विभाषाग्रहणं च नानुवर्तते। तदाह- - नित्यमिति। श्यैङ इति। श्यैङ्धातोरवपूर्वस्य षोधातोश्च कृतात्त्वयोः सूत्रे निर्देशः। तयोरादन्तत्वादेव सिद्धे पुनग्र्रहणम् `आतश्चोपसर्गे' इति कप्रत्ययबाधनार्थमित्यर्थः। अवश्यायः प्रतिश्याय इति। श्यैङ आत्त्वे कृते णः। आतो युक्। आदिति। आदन्तस्योदाहरणसूचनम्। दायः धाय इति। णे आतो युक्। व्याध इति। अतिपूर्वादिण्धातोर्णे वृद्ध्यायादेशौ। अवसाय इति। अवपूर्वात् `षोऽन्तकर्मणि' इत्यस्माण्णे आतो युक्। लेहः श्लेष इति। णे लघूपधगुणः। \उfffदाआस इति। णे उपधावृद्धिः।
600 श्याद्व्यधा। अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रे पुनरनुपसर्गग्रहणात्। एवं च तत्सम्बद्धं विभाषाग्रहणमपि निवृत्तं।तदाह–नित्यमिति। इह सूत्रे श्यैङ् गतावित्यस् आत्वे शया आदिति प्रश्लेषो, न तु शीङो यणादेशेन, नाप्यततेः, अच्छब्दान्तानां वा यतिप्रभृतीनां, नाप्यकारान्तानां वा प्रश्लेषेण ग्रहणं, व्याख्यानादिति भावः। कं बाधितुमिति। अन्यथा `आतश्चोपसर्गे' इति विशेषविहितः कः सामान्यविहितस्य णस्य बाधकः स्यादित्यर्थः। रुआउ गतौ। प्राचा तु सूत्रे आश्रु संश्रु इति तालव्यं पठित्वा शृणोतिरुदाह्मतस्तदनाकरम्। तथाच प्रयुञ्जते- - `अनाश्रवा वः किमहं' कदापि वक्तुं विशेषः परमस्ति शेषः'इति नैषधादौ। अमरोऽप्याह- -`वचने स्थित आश्रवः' इति। यदि तु सूत्रे अस्मिन् शृणोतेग्र्रहणं स्यात्तर्हि `ऋदोर'बिति सामान्यविहितमपं बाधित्वा आङ्पू?रवकाच्छृणोतेर्विशेषविहितो ण एव स्यात्, [तथा च `आश्रव' इति रूपं न स्यात्, किंत्वाश्राव इति स्यादिति दिक्। लेहः श्लेष इति। `इगुपधे'ति कप्रत्यये गुणो न स्#आदिति भावः।
TBD.