Table of Contents

<<3-1-139 —- 3-1-141>>

3-1-140 ज्वलितिकसन्तेभ्यो णः

प्रथमावृत्तिः

TBD.

काशिका

इतिशब्दः आद्यर्थः। ज्वल दीप्तौ इत्येवम् आदिभ्यो धातुभ्यः कस गतौ इत्येवम् अन्तेभ्यो विभाषा णप्रत्ययो भवति। अचो ऽपवादः। ज्वालः, ज्वलः। चालः, चलः। अनुपसर्गातित्येव, प्रज्वलः। तेनोतेर्णस्य उपसङ्ख्यानं कर्तव्यम्। अवतनोति इति अवतानः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

719 ज्वलिति। आद्यर्थ इति। तथा च ज्वल् इति = आदिर्येषां ते ज्वलितयः, ते च ते कसन्ताश्चेति ज्वलितिकसन्ताःष तेभ्य इति विग्रहः। तदाह– ज्वलादिभ्य इति। `ज्वल दीप्तौ इत्यारभ्य `कस गतौ' इत्येवमन्तेभ्य इत्यर्थः। वा णः स्यादिति।विभाषेत्यनुवर्तते इति भावः। पक्षेऽजिति। `इगुपधेभ्यः कः' इत्यपि बोध्यम्। उपसङ्ख्यानमिति। `णस्ये'ति शेषः। न संबध्यते इति। `अवतानः' इत्येव भाष्ये उदाहरणादिति भावः।

तत्त्वबोधिनी

599 इतिशब्द आद्यर्थ इति। निपातानामनेकार्थत्वादिति भावः।

Satishji's सूत्र-सूचिः

TBD.