TBD.
दाञो धाञश्च विभाषा शप्रत्ययो भवति। णस्य अपवादः। ददः, दायः। दधः, धायः। अनुपसर्गातित्येव, प्रदः, प्रधः।
TBD.
–
718 ददातिदधात्योर्विभाषा। दाञ्, धाञ्, आभ्यां शो वा स्यात्। ददः दध इति। शः, शप्, श्लुः। `श्लौ' इति द्वित्वम्। आतो लोपः। वक्ष्यमाण इति। `स्याद्व्यदे' त्यनेनेति भावः। प्रदः प्रध इति। `आतश्चोपसर्गे' इति कः।
598 ददातिदधात्योर्विभाषा। ददः दध इति। शे परे `जुहोत्यादिभ्य' इति श्ल, `श्लौ' इति द्वित्वम्। अपित्सार्वदातुकस्य शस्य ङित्त्वात् `आतो लोपः' इत्यालोपः। वक्ष्यमाणो ण इति। `श्याद्व्यधे'ति णप्रत्यये आतो युकि– दायः धायः। प्रदः प्रध इति। `आतश्चोपसर्गे' इति कः। स्यादेतत्– दद दाने, दध धारणे, आभ्यामचि ददो दध इति सिद्धम्, दाधाभ्यामादन्तलक्षणे णप्रत्यये दायो धाय इत्यपि, ततश्चेदं सूत्रं व्यर्थमिति चेत्। सत्यम्। स्वरार्थमिदं सूत्रम्। अददः अदधः। इह हि अव्ययपूर्वपदप्रकृतिस्वर इष्यते। अजन्तत्वे तु `अच्कावशक्ता' वित्यन्तोदात्तत्वं स्यात्।
TBD.