Table of Contents

<<3-1-137 —- 3-1-139>>

3-1-138 अनुपसर्गाल् लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

अनुपसर्गेभ्यो लिम्पाऽदिभ्यः शप्रत्ययो भवति। लिम्पति इति लिम्पः। विन्दति ति विन्दः। धारयति इति धारयः। पारयति इति पारयः। वेदयति इति वेदयः। उदेजाति इति उदेजयः। चेतयति इति चेतयः। सातिः सौत्रो धातुः। सातयः। साहयः। अनुपसर्गातिति किम्। प्रलिपः। नौ लिम्पेरिति वक्तव्यम्। निलिम्पा नाम देवाः। गवादिषु विन्देः संज्ञायाम्। गोविन्दः। अरविन्दः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

717 अनुपसर्गात्। शः स्यादिति। शेषपूरणम्। लिम्पः विन्द इति। `लिप उपदेहे `विद्लृ लाभे' इति तुदादौ, ताभ्यां शः। `शे मुचादीना'मिति नुम्। सूत्रे कृतनुमौ लिम्पविन्दौ निर्दिष्टौ, अतस्तौदादकयोरेव ग्रहणम्। धारय इति। `धृञ् धारणे' `धृङ् अवस्थाने' आभ्यां हेतुमण्ण्यन्ताभ्यां शः शप्, गुणाऽयादेशौ। पारय इति। पृ?धातोण्र्यन्ताच्छः, शप्, गुणाऽयादेशौ। विद वेदनाख्यादिषु, चुरादिण्यन्ताच्छः, शप् गुणाऽयादेशौ। उदेजय इति। उत्पूर्वादेजधातोण्र्यन्ताच्छः, शप् गुणाऽयादेशौ। चेतय इति। `चिती संज्ञाने' ण्यन्ताच्छः, शप्,गुणाऽयादेशौ। एवं सातयः। सादिति रूपं साधयितुमाह– वासरूपनयायेन क्विबिति। सातयति सुखयतीत्यर्थे क्विप्। णिलोपः। यद्यपि क्विप् सामान्यविहितः सातेः शप्रत्ययस्तु तदपवादः, तथापि वासरूपविधिना क्विबपि भवतीत्यर्थः। सात्परमात्मेति। `एष ह्रेवानन्दयती'ति श्रूतेः तस्यसुखयितृत्वावगमादिति भावः। सात्वन्त इति। सात् = परमात् मा भजनीय एषामित्यर्थे मतुप्। `मादुपधायाः' इति मस्य वः। `तसौ मत्वर्थे' इति बत्वात्पदत्वाऽभावान्न जश्त्वम्। साहय इति। साहेः शः। शप्। गुणाऽयादेशौ। प्रलिप इति। इगुपधलक्षणः कः। नौ लिम्पेरिति। वार्तिकमिदम्। `नी'त्युपसर्गे उपपदे लिम्पेः शो वाच्य #इत्यर्थ-। `अनुपसर्गा' दित्युक्तेः पूर्वेणाऽप्राप्तौ वचनम्। गवादिष्विति। वार्तिकमिदम्। गवादिषु उपपदेषु विन्देः शो वाच्य इत्यर्थः। `संज्ञायामेवे'ति नियमार्थमिदम्। गोविन्द इति। गाः = उपनिषद्वाचः प्रमाणतया विन्दतीत्यर्थः। अरविन्दिमिति। चक्रे नाभिनेम्योरन्तरालप्रोतानि काष्ठानि अराणि, तत्सदृशानि दलानि विन्दतीत्यर्थः। कर्मण्यणोऽपवादः शः।

तत्त्वबोधिनी

597 अनुपसर्गाल्लिम्पविन्द। इह लिम्पविन्देति भाविना नुमा सनुम्कौ निर्दिष्टौ। तेन लाभार्थस्यैव विन्देग्र्रहणं, न तु सत्ताद्यर्थकानाम्। धारय इति। धृञ् धारणे, धृङ् अवस्थाने, ण्यनतयोद्र्वयोरपि ग्रहणम्। अथ कथं `नमह्रमत्रोत्तरधारयस्य ते' इति श्रीहर्षः। परत्वाद्धि सूत्रधारादिष्विव कर्मण्यणा भाव्यम्। तथा च वार्तिकम्– - `अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेने'ति। सत्यम्। कर्मणः शेषत्वविवक्षायामणोऽप्राप्त्या शे कृते शेषषष्ठ\उfffद्न्तेन समासो भविष्यति। एतेन गङ्गाधरभूधरजलधरादयो व्याख्याताः। पारय इति। पार कर्मसमाप्तौ चुरादिण्यन्तः। पृ? पालनपूरणयोरिति वा हेतुमण्ण्यन्तः। वेदय इति। विद चेतनाख्यानादिषु चुरादिः, ज्ञानाद्यर्थानामन्यतमो वा हेतुमण्ण्न्तः। इहोदाहरणेषु लिपिविदिभ्यां `तुदादिभ्यः शः'। `शे मुचादीना'मिति नुम्। धार्यादिभ्यस्तु शप्, गुणायाऽदेशौ। विन्देः संज्ञायाम्। अरविन्दमिति। चक्रस्य नाभिनेम्योरन्तराले स्थितानि काष्ठानि अराः, तदाकाराणि दलानि तत्सादृश्यादराः, तान् विदन्ति लभते इत्यर्थे कर्मण्यणो बाधनायेदम्।

Satishji's सूत्र-सूचिः

TBD.