Table of Contents

<<3-1-127 —- 3-1-129>>

3-1-128 प्रणाय्यो ऽसम्मतौ

प्रथमावृत्तिः

TBD.

काशिका

अविद्यमाना सम्मतिरस्मिनित्यसम्मतिः। सम्मननं सममतिः, सम्मतता, पूजा। प्रणाय्यः इति निपात्यते ऽसम्मतावभिधेये। प्रणाय्यश्चोरः। असम्मतौ इति किम्? प्रणेयो ऽन्यः। यद्येवं कथम् एतत्, ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्यान्तेवासिने, न अन्यस्मै कस्मैचन इति? सम्मतिरभिलाषो ऽप्युच्यते। तदभावेन निष्कामतया असम्मतिरन्तेवासी भवति। तस्मै निष्कामाय मोक्षार्थं यतमानायान्तेवासिने प्रणाय्याय ब्रह्म ब्रूयातिति युज्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

706 प्रणाय्योऽसमंतौ। असंमतौ गम्यायां `प्रणाय्य' इति निपात्यते। तत्र असंमतिशब्दैकदेशं समंतिशब्दं विवृणोति– प्रीतिविषयीभवनमिति। तच्च कर्मनिष्ठमित्याह– कर्मव्यापार इति।तथेति। भोगेषु = सुखदुःखानुभवेषु आसक्तिरपि संमतिरित्यर्थः। एवंविधा संमतिर्न भवतीति असंमतिरिति फलितम्। प्रणाय्यश्चोर इति। ण्यति वृद्धौ आयादेशः।

तत्त्वबोधिनी

587 कर्मव्यापार इति।तथा चायमर्थः– लोकानां या प्रीतिस्तद्विषयीभवनं यस्मिन्नास्ति चोरादौ सोऽसंमतिरिति। वस्तुतस्तु प्रीतिविषयीभवनापेक्षया लाघवात्प्रीतिरेव संमतिः,सा यस्मिन् चोरादौ नास्ति लोकानं सोऽसंमतिः। यद्वा संमतिः प्रीतिविषयेषु यस्य नास्ति स विरक्कतोऽसंमति। तन्त्रेणाऽर्थद्वयमपि गृह्रते।

Satishji's सूत्र-सूचिः

TBD.