Table of Contents

<<3-1-126 —- 3-1-128>>

3-1-127 आनाय्यो ऽनित्ये

प्रथमावृत्तिः

TBD.

काशिका

आनाय्यः इति निपात्यते अनित्ये ऽभिधेये। नयतेराङ्पूर्वाण् ण्यदायादेशौ निपात्येते। आनाय्यो दक्षिणाग्निः। रूढिरेषा। तस्माद् नित्यविशेषे दक्षिणाग्नावेव अवतिष्ठते। तस्य च अनित्यत्वं नित्यम् अजागरणात्। यश्च गार्हपत्यादानीयते दक्षिणाग्निराहवनीयेन सह एकयोनिः, तत्र तन् निपातनं, न दक्षिणाग्निम् आत्रे। तस्य हि योनिर् विकल्प्यते वैश्यकुलाद् वित्तवतो भ्राष्ट्राद्वा गार्हपत्याद् वा इति। आनाय्यो ऽनित्य इति चेद् दक्षिणाग्नौ कृतं भवेत्। एकयोनौ तु तं विद्यादानेयो ह्यन्यथा भवेत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

705 अनाय्योऽनित्ये। `अनित्ये' इति च्छेदः। दक्षिणाग्निविशेषएवेति। वार्तिकमिदम्। स हीति। दक्षिणाग्निर्ह अग्निहोत्रार्थमहरर्गार्हपत्यादेः प्रणीयत इत्यर्थः। एतेन आङ्पूर्वकस्य नयतेरर्थ उक्तः। अनित्यश्चेति। गार्हपत्यवन्नित्यधारणाऽभावादिति भावः। तदाह– सततमिति। सततं धारणाऽभावादित्यर्थः। प्रमैइतस्य दक्षिणाऽग्नेस्तत्तत्कर्मणि समाप्ते लौकिकत्वमुक्तं कल्पसूत्रेषु – `अप्रवृत्ते कर्मणि लौकिकं संपद्यतेट इति। ततश्चपुनःपुनः प्रणयनादनित्यत्वं दक्षिणाग्नेरिति बोध्यम्। यद्यप्याहवनीयस्यापि पुनःपुनः प्रणयनमस्ति, तथापि `दक्षिणाऽग्निविशेष एवे'ति वार्तिकान्नाहवनीयस्य ग्रहणमित्यर्थः। विशेषग्रहणान्नित्यधारणपक्षे दक्षिणाग्निरिह न गृह्रते इति सूचितम्, गतश्रियां दक्षिणाग्नेरपि नित्यधार्यत्वात्, `गतश्रियो नित्यधार्या अग्नयः'इति वचनादित्यलं पल्लवितेन। वैश्यकुलादानीत इति। दक्षिणा\उfffद्ग्न प्रकृत्यहि श्रूयते– `अहरहरेवैनं वैश्यकुलादाहरन्'इति। तथाविधदक्षिणाग्नौ वाच्ये आनेयशब्द एवेति भावः।

तत्त्वबोधिनी

586 वैश्यकुलादेरिति। दक्षिणाग्नेर्हि योनिर्विकल्प्यते,– - `वैश्यकुलाद्वित्तवतोभ्राष्ट्राद्वा गार्हपत्याद्वे'ति।

Satishji's सूत्र-सूचिः

TBD.