Table of Contents

<<3-1-118 —- 3-1-120>>

3-1-119 पदास्वैरिबाह्यापक्ष्येषु च

प्रथमावृत्तिः

TBD.

काशिका

पदे अस्वैरिणि बाह्यायां पक्ष्ये चर्थे ग्रहेर् धातोः क्यप् प्रत्ययो भवति। पदे तावत् प्रगृह्यं पदम्, यस्य प्रगृह्यसंज्ञा विहिता। अवगृह्यं पदम्, यस्य अवग्रहः क्रियते। अस्वैरी परतन्त्रः। गृह्यका इमे। गृहीतका इत्यर्थः। बाह्यायम् ग्रामगृह्या सेना। नगरगृह्या सेना। ग्रामंअगराभ्यां बहिर्भूता इत्यर्थः। स्त्रीलिङ्गः निर्देशादन्यत्र न भवति। पक्षे भवः पक्ष्यः। वासुदेवगृह्याः। अर्जुनगृह्याः। तत्पक्षाश्रिताः इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

690 पदाऽस्वैरि।पद, अस्वैरि, बाह्रा, पक्ष्य एष्वर्थेषु ग्रहेः क्यबित्यर्थः। अवगृह्रं प्रगृह्रं वा पदमिति। समस्तपदस्य अवान्तरपदविच्छेदोऽवग्रहः। `अप्रावेत्यादिपदमितिशिरस्कं प्रग्रहः' इति प्रातिशाख्ये प्रसिद्धम्। `ईदूदेद्द्विवचनं प्रगृह्र'मिति सूत्रोदाहरणं च प्रगृह्रम्।

तत्त्वबोधिनी

574 पदास्वैरि। एष्वर्थेषु ग्रहेः क्यप् स्यात्। अवगृह्रमिति। यस् पदस्याऽवग्रहः क्रियते तत्पदम्। अवग्रहो = विच्छेदः। अवान्तरपदसंज्ञां सूचयितुं पाठकाले किंचित्कालमवसनाम्। प्रगृह्रमिति। यस्य प्रग्रहस्तत्पदम्। प्रग्रहस्तु प्रकृतिभावात् यणाद्यभावे परस्परमचोरसन्नकर्षः। `यस्य प्रगृह्रसंज्ञा विहिता तत्प्रगृह्र'मिति वृत्तिः। यद्पि पदावयवस्य द्विवचनादेः प्रगृह्रसंज्ञा न तु पदस्य, तथाप्यवयवधर्मस्य समुदाये उपचारो बोध्यः। अवगृह्रप्रगृह्रशब्दौ प्रातिशाख्यादिषु पदविशेषपरतया निरूढौ। अस्वैरीति। स्वेन ईरितुं शीलमस्य स्वैरी = स्वतन्त्रः। `स्वादीरेरिणोः' इति वृद्धिः। नञ्पूर्वस्तु अस्वैरी। गृह्रका इति। `अनुकम्पाया'मिति कन्। गृहासक्ताः पक्षमृगाश्छेकास्ते गृह्रकाश्च ते' इत्यभरः। विभाषा कृ। करोतेः क्यप्यप्राप्ते, वृषेस्तु ऋदुपधत्वान्नित्यं प्राप्तेऽयमारम्भः।

Satishji's सूत्र-सूचिः

TBD.