Table of Contents

<<3-1-117 —- 3-1-119>>

3-1-118 प्रत्यपिभ्यां ग्रहेश् छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

प्रति अपि इत्येवं पूर्वाद् ग्रहेः क्यप् प्रत्ययो भवति छन्दसि विषये। मत्तस्य न प्रतिग्रृह्यम्। तस्मान् न अपिगृह्यम्। छन्दसि इति किम्? प्रतिग्राह्यम्। अपिग्राह्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

689 प्रत्यपिभ्यां ग्रहे। छन्दसीति। वार्तिकमिदम्। वृत्तिकृता तु सूत्रे प्रक्षिप्तम्। ननु छान्दसस्य किमर्थमिहोपन्यास इत्यत आह– लोके त्विति।

तत्त्वबोधिनी

573 *छन्दसीति वक्तव्यम्। वक्तव्यमिति। वृत्तिकृता तु सूत्रे प्रक्षिप्तम्। क्यप उदाहरणं तुछन्दस्येव। `मत्तस्य न प्रतिगृह्रं तस्मान्नाऽपिगृह्रम्'। लोके त्विति। ण्यदेवेति भावः।

Satishji's सूत्र-सूचिः

TBD.