Table of Contents

<<3-1-116 —- 3-1-118>>

3-1-117 विपूयविनीयजित्या मुङ्जकल्कहलिषु

प्रथमावृत्तिः

TBD.

काशिका

निपूय विनीय जित्य इत्येते शब्दा निपात्यन्ते यथासङ्ख्यं मुञ्ज कल्क हलि इत्येतेषु अर्थेषु वोध्येषु। विपूर्वात् पवतेर् नयतेश्च तथा जयतेर् यति प्राप्ते कर्मणि क्यब् निपात्यते। विपूयो मुञ्जः। विपाव्यम् अन्यत्। विनीयः क्ल्कः। विनेयम् अन्यत्। जित्यो हलिः। जेयम् अन्यत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

688 विपूय। विपूय, विनीय, जित्य - एते यथाक्रमं मुञ्जुकल्कहलिषु क्यबन्ता निपात्यन्ते। तदाह– पूङित्यादिना। न्यादिसाहचर्याद्भौवादिकस्यैव पूधातोग्र्रहणमिति भावः। हलिशब्दस्य विवरणं - कृष्टेति।

तत्त्वबोधिनी

572 पापमिति वेति। `तपो न कल्कोऽध्ययनं न कल्कः' इत्युपक्रम्य `तान्येव बावोपहतानि कल्कः' इति भारते दर्शनात्। `कल्कः पापाशये पापे दम्बे विट्किट्टयोरपि' इति कोशाच्चेति भावः।

Satishji's सूत्र-सूचिः

TBD.