Table of Contents

<<3-1-115 —- 3-1-117>>

3-1-116 पुष्यसिद्ध्यौ नक्षत्रे

प्रथमावृत्तिः

TBD.

काशिका

पुषेः सिधेश्च अधिकरणे क्यप् निपात्यते नक्षत्रे अभिधेये। पुष्यन्ति अस्मिन्नर्थाः इति पुष्यः। सिध्यन्ति अस्मिन्निति सिद्ध्यः। नक्षत्रे इति किम्? पोषणम्। सेधनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

687 पुष्यसिध्यौ। `निपात्येते' इति शएषः। नक्षत्रविशेषे गम्ये इत्यर्थः।

तत्त्वबोधिनी

571 पुष्यसिद्ध्यौ। नक्षत्रे किम् ?। पोषणं, सेधनम्। अधिकरणे ल्युट्। पुष्यसिध्ययोः पर्यायत्वेऽपि स्वरूपपरत्वात्सूत्रे द्वन्द्वः। `पुष्ये तु सिध्यतीष्यौ' इत्यमरः।

Satishji's सूत्र-सूचिः

TBD.