Table of Contents

<<3-1-114 —- 3-1-116>>

3-1-115 भिद्यौद्ध्यौ नदे

प्रथमावृत्तिः

TBD.

काशिका

भिदेरुज्झेश्च क्यप् निपात्यते नदे ऽभिधेये। उज्झेर् धत्त्वं च। भिनत्ति कूलं भिद्यः। उज्झति उदकम् उद्ध्यः। नदे इति किम्? भेत्ता। उज्झिता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

686 भिद्योध्यौ नदे। क्यबिति। `नद विशेषे कर्तरि निपात्यते' इति शेषः।

तत्त्वबोधिनी

570 भिद्योद्भ्यौ। क्यबिति। `कर्तरी'ति शेषः। उद्ध्य इति। `तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टित'मिति रघुः।

Satishji's सूत्र-सूचिः

TBD.