Table of Contents

<<3-1-113 —- 3-1-115>>

3-1-114 राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः

प्रथमावृत्तिः

TBD.

काशिका

राजसुय सुर्य मृषोद्य रुच्य कुप्य कृष्टपच्य अव्यथ्य इत्येते शब्दाः क्यपि निपात्यन्ते। राज्ञा सोतव्यः, राजा वा इह सूयते राजसूयः क्रतुः। सूसर्तिभ्यां क्यप्, सर्तेरुत्वं, सुबतेर् वा रुडागमः। सरति सुवति व सूर्यः। मृषापूर्वस्य वदतेः पक्षे यति प्राप्ते नित्यं क्यब् निपात्यते। मृषापूर्वस्य मृषोद्यम्। रोचते ऽसौ रुच्यः। कर्तरि क्यप्। गुपेरादेः क्त्वं च सज्ञायाम्। कुप्यम्। गोप्यम् अन्यत्। कृष्टे पच्यन्ते कृष्टप्च्याः। कर्मकर्तरि निपातनम्। न व्यथते अव्यथ्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

685 राजसूय। राज्ञेति। क्षत्रियेणेत्यर्थः। अभिषवेति। ग्रावभी रसनिष्पत्त्यर्थं सोमलातानां कुट्टनमभिषवः, तत्प्रणाडिकया निष्पादयितव्यो यज्ञविशेषो राजसूय इत्यन्वयः। यद्वेति। लताविशेषात्मकः सोमो राजशब्देन विवक्षितः, `राजानं क्रीणाती'त्यादौ तथा प्रसिद्धेः। स राजा सूयते = अभिषूयते अत्र यज्ञविशेषे इति व्युत्पत्या राजसूय इत्यन्वयः। `कर्तरि कृ'दित्यधिकारात्कथमधिकरणव्युत्पत्तिरित्यत आह– अधिकरणे क्यबिति। कुत इत्यत आह– निपातनादिति। ननु षुञ्धातोः क्यपि कथं दीर्घः, `अकृत्सार्वधातुकयो'रित्यतस्य कृत्यप्रवृत्तेरित्यत आह– निपातनाद्दीर्घ इति। निपातनादित्युभयत्रान्वेति। उत्वमिति। तस्य रपरत्वे `हलि चे'ति दीर्घ इत्यपि बोध्यम्। मृषोद्यमिति। क्यपि `वचिस्वपी'ति संप्रसारणम्। रोचतेरिति। रुचदातोः क्यपि `रुच्य' इति रूपमित्यर्थः। गुपेरिति। गुब्धातोः क्यप्, प्रकृतेरादिवर्णस्य ककारश्च संज्ञायां निपात्यते इत्यर्थः। सुवर्णरजतभिन्नं धनं कुप्यमिति ज्ञेयम्। तथा च `हेमरूपे कृताऽकृते' इत्युक्त्वा अमर आह– `ताभ्यां तदन्यत्तत्कुप्यमिति। कृष्ट इति। कृष्टप्रदेशे ये स्वयं पच्यन्ते = फलन्ति ते कृष्टपच्या इत्यर्थः। कर्मकर्तरीति। अत्र कर्मकर्तरि क्यबित्यर्थः। निपातनादिति भावः। शुद्धे त्विति। मुक्यकर्मणि तुण्यति उपधावृद्धौ `चजो'रिति कुत्वे `कृष्टपाक्य' इति रूपमित्यर्थः। अव्यथ्य इति। अत्र निपातनात्कर्तरि क्यबिति भावः।

तत्त्वबोधिनी

569 राजसूय। यद्वेति। `राजानं क्रीणन्ति' इत्यादौ तथा दर्शनादिति भावः। षुञ् अभिषव इत्यस्य ह्यस्वान्तत्वादाह– निपातनाद्दीर्घ इति। निपातनं च रूढ\उfffद्र्थमपि।तेनाद्यपक्षे अ\उfffदामेघादौ, द्वितीयपक्षे ज्योतिष्टोमादौ च नातिप्रसङ्गः। उत्वमिति। तस्य रपरत्वात् `हलि च' इति दीर्घ इति भावः। नित्यं क्यबिति। तेन `वदः सुपि क्यप्च' इति यत्प्रत्ययो नेति भावः।

Satishji's सूत्र-सूचिः

TBD.