Table of Contents

<<3-1-106 —- 3-1-108>>

3-1-107 भुवो भावे

प्रथमावृत्तिः

TBD.

काशिका

सुप्यनुपसर्गे इत्यनुवर्तते। भवतेर् धातोः सुबन्ते उपपदे ऽनुपसर्गे भावे क्यप् प्रत्ययो भवति। यत् तु न अनुवर्तते। ब्रह्मभूयं गतः ब्रहंत्वं गतः। देवभूयं, देवत्वं गतः। भावग्रहणम् उत्तरार्थम्। सुपि इत्येव, भव्यम्। अनुपसर्गे इत्येव, प्रभव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

676 भुवो भावे। ब्राहृभूयमिति। कित्त्वान्न गुणः। क्लीबत्वं लोकात्। भव्यमिति। भाव इत्यर्थः। अत् सुबुपपदत्वाऽभावाद्यदेव, गुणः, `वान्तो यी'त्यवादेशः। प्रभव्यमिति। प्रभाव इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.