Table of Contents

<<3-1-106 —- 3-1-108>>

3-1-107 भुवो भावे

प्रथमावृत्तिः

TBD.

काशिका

सुप्यनुपसर्गे इत्यनुवर्तते। भवतेर् धातोः सुबन्ते उपपदे ऽनुपसर्गे भावे क्यप् प्रत्ययो भवति। यत् तु न अनुवर्तते। ब्रह्मभूयं गतः ब्रहंत्वं गतः। देवभूयं, देवत्वं गतः। भावग्रहणम् उत्तरार्थम्। सुपि इत्येव, भव्यम्। अनुपसर्गे इत्येव, प्रभव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

676 भुवो भावे। ब्राहृभूयमिति। कित्त्वान्न गुणः। क्लीबत्वं लोकात्। भव्यमिति। भाव इत्यर्थः। अत् सुबुपपदत्वाऽभावाद्यदेव, गुणः, `वान्तो यी'त्यवादेशः। प्रभव्यमिति। प्रभाव इत्यर्थः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.