TBD.
अजर्यम् इति निपात्यते, सङ्गतं चेद् भवति। जीर्यतेः नञ्पूर्वात् सङ्गते सङ्गमने कर्तरि यत् प्रययो निपात्यते। न जीर्यति इति अजर्यम्। अजर्यम् आर्यसङ्गतम्। अजर्यं नो ऽस्तु सङ्गतम्। सङ्गतम् इति किम्? अजरिता कम्बलः।
TBD.
–
674 अजर्यम्। कर्तरि यदिति। `कर्तरीति वक्तव्य'मिति वार्तिकम्। निपातनात्कर्तरीति लभ्यत इति तदाशयः। सङ्गतमिति। सङ्गतं = सङ्गमः। न जीर्यतीत्यजर्यमिति। `मित्रत्व'मिति शेषः। जरितृ न भवतीत्यर्थः। अत्र भट्टिप्रयोगमाह– तेनेति। हे राम ! तेन आर्येण अजर्यम् = अन\उfffदारं, सङ्गतं- सङ्गमं द्रुतं कुरु इत्यन्वयः। ननु `मृगौरजर्यं जरसा' इत्यत्र सङ्गतशब्दाऽभावात्कथं यदित्यत आह– मृगैरित्यादि। कालिदासकाव्यमिदम्। अजरितेति। तृजऽभावान्न यदित्यर्थः।
560 संगतं चेदिति। नपुंसके भावे क्तः। विशेष्यमिति। इहाऽजर्यमिति समुदायस्य सङ्गतं वाच्यमित्यर्थो न ग्राह्रः, पर्यायाणां युगपत्प्रयोगाऽसंभवेनाऽजर्यंसतां सङ्गतमिति प्रयोगाऽनापत्तेः, `तेन सङ्गत'मिति भट्टिप्रयोगानुपपत्तेश्च।
TBD.