Table of Contents

<<3-1-100 —- 3-1-102>>

3-1-101 अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु

प्रथमावृत्तिः

TBD.

काशिका

अवद्य पण्य वर्या इत्येते शब्दा निपात्यन्ते गर्ह्य पणितव्य अनिरोध इत्येतेष्वर्थेषु यथासङ्ख्यम्। अवध्यम् इति निपात्यते गर्ह्यं चेत् तद् भवति। अवद्यं पापम्। अनुद्यम् अन्यत्। वदः सुपि क्यप् च 3-1-106। पण्यम् इति निपात्यते, पणितव्यं चेत् तद् भवति। पण्यः कम्बलः। पण्या गौः। पाण्यम् अन्यत्। वर्या इति स्त्रियां निपात्यते, अनिरोधश्चेद् भवति। अनिरोधो ऽप्रतिबन्धः। शतेन वर्या। सहस्रेण वर्या। वृत्या अन्या। स्त्रीलिङ्गनिर्देशः किम् अर्थः? वार्या ऋत्विजः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

670 अवद्यपण्य। अवद्य, पण्य, वर्य एषां द्वन्द्वात्प्रथमाबहुवचनम्। गह्र्र, पणितव्य,अनिरोध एषां द्वन्द्वात्सप्तमीबहुवचनम्। अवद्यादयरुआयः क्रमाद्गह्र्रादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः। ननु `वदः सुपि' इत्येव सिद्धे अवद्यग्रहणं व्यर्थमित्यत आह– नञ्युपपदे इति। यत्क्यपोः स्वरे विशेषः,संप्रसारणतदभावौ चेति भावः। अवद्यं पापामिति।गर्हितत्वादवाच्यमित्यर्थः। अनुद्यं गुरुनामेतव। अत्र नञि उपपदे `वदः सुपीटति क्यपि `वचिस्वपियजादीनां किती'ति संप्रसारणे रूपम्। वचनाऽनर्हमित्यर्थः। अत्र गर्हाया अप्रतीतेर्यदेवेदित न नियम इति भावः। ननु गुरुनाम्नोऽगह्र्रत्वातकथं वचनानर्हत्वमित्यत आह– तद्धि न गर्ह्रं वचनानर्हं चेति।कुत इत्यत आह– आत्मनामेति। पण्या गौरिति। पणधातोव्र्यवहारार्थकाद्यन्निपात्यते इति भावः। यद्यपि `पण व्यवहारे स्तुतौ च' इति धातोर्र्थद्वयमस्ति, तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्रते। तदाह– व्यवहर्तव्येति। क्रेतव्येत्यर्थः। पाण्यमन्यदिति। ण्यति उपधावृद्धिरिति भावः। व्यवहर्तव्यादन्यदित्यर्थः। तदाह- - स्तुत्यर्हमिति। ?प्रतिबन्ध इति। अनियम इत्यर्थः। वृङो यदिति। `वृङ् संभक्तौ' इति क्रैयादिकस्यैवाऽत्र ग्रहणं, नतु `वृञ् वरणे' इत्यस्य, अनिरोधरूपार्थस्य संभक्तिवाचित्व एव सामञ्जस्यादिति भावः। शतेन वर्याकन्येति। पुरुषशतेन परिग्रहीतुमर्हा। अनेनैव वरणीयेति नियमो नास्तीत्यर्थः। वृत्या अन्येति। अनुरूपेण वरणीयेत्यर्थः। `एतिस्तुशास्वृदृजुषः क्य'बिति तुक्। अत्र अनियमस्य अप्रतीतेर्न यत्। अत्र वर्याशब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि `वार्या ऋत्विज' इति वृत्तिः।

तत्त्वबोधिनी

557 अनुद्यमिति। अत्र वदेः क्यबेव भवति।यजादित्वात्संप्रसारणम्। `नलोपो नञः'। `तस्मान्नुडचि'। व्यवहर्तव्येति। यद्यपि पणितव्यशब्दोऽर्थद्वयसाधारणस्तथापि निपातनस्येह रूढ\उfffद्र्थत्वद्व्यवहर्तव्य एवाऽयं निपात्ते। उक्तंच हरिणा- - `धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च। अनुबन्धविकाराणां रूढ\उfffद्र्थं च निपातन'मिति। अनुबन्धविकाराणां नियमस् च प्राप्त्यर्थमिति पूर्वेणान्वयः। शतेनेति। शतशब्दोऽनियतपरः। कन्याय वरणे वरयितृ?णां नियमो नास्तीत्यर्थः। वर्येति। संभक्तव्येत्यर्थः। वृङ् संभक्तावित्स्येदं निपानम्, तत्रैवाऽनिरोधरूपस्याऽर्थस्य संभवादिति भावः। अनिरोदेष्वित्यस्याऽनुक्तौ वृञोऽपि स्यादिति ध्वनयति– वृत्येति। `एतिस्तुशास्' इत्यादिना वृञः क्यप्। इह सूत्रेऽवद्यादीनि निर्विभक्तिकानि पृथक्पदानि,तत्र वर्याशब्दष्टाबन्तोऽनुक्रियते। न त्वयं द्वन्द्वेन जसन्तेन निर्देशः। तेन वर्येति स्त्रियामेव निपात्यते। अस्त्रियां तु वृङः `ऋहलोण्र्यत्'। वार्या ऋत्विजः। ऋत्विजामपि यज्ञमात्रे वरणीयत्वादनिरोधोऽस्ति, स्त्रीत्वं तु नास्तीति ण्यदेव भवति। एतच्च वृत्तिकारमतम्। न चाऽत्र`एतिस्तु' इतिक्यप् शङ्क्यः, तत्र वृञ एव ग्रहणं न तु वृङ इति सिद्धान्तात्। भट्टिस्तु द्वन्द्वाज्जसा निर्देश इति मत्वा पुंलिङ्गेऽपि यतं प्रायुङ्क्त—-`सुग्रीवो ममवर्योऽसौ' इति।

Satishji's सूत्र-सूचिः

TBD.