Table of Contents

<<3-1-99 —- 3-1-101>>

3-1-100 गदमदचरयमश् च अनुपसर्गे

प्रथमावृत्तिः

TBD.

काशिका

गद व्यक्तायां वाचि, मदी हर्षे, चर गतिभक्षणयोः, यम उपरमे, एतेभ्यश्च अनुपसर्गेभ्यो यत् प्रत्ययो भवति। गद्यम्। मद्यम्। चर्यम्। यम्यम्। अनुपसर्गे इति किम्? प्रगाद्यम्। प्रमाद्यम्। यमेः पूर्वेण एव सिद्धे अनुपसर्गनियमार्थं वचनम्। चरेराङि चागुरौ। आचर्यो देशः। अगुरौ इति किम्? आचार्य उपनेता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

669 गदमद। गद, मद, चर, यम् एषां चतुर्णां द्वन्द्वः। अनुपसर्ग इति सप्तमी पञ्चम्यर्थे। एभ्योऽनुपसर्गेभ्यो यदित्यर्थः। ण्यतोऽपवादः। उपसर्गाण्ण्यदेव। प्रगाद्यमित्यादि। चरेराङिचाऽगुराविति। वार्तिकमिदम्। आङि उपसर्गे सत्यपिचरेर्यत्स्यादगुरौ इत्यर्थः। आचार्यो गुरुरिति। शुश्रूषणीय इत्यर्थः। ननु `पोरदुपधा' दित्येव सिद्धे यमेरिह ग्रहणं व्यर्थमित्यत आह– यमेर्नियमार्थमिति। अनुपसर्गादेव यमेण्र्यदिति नियमार्थमित्यत्यर्थः। तत्फलमाह– सोपसर्गान्मा भूदिति। ननु `अनियम्यस्य नाऽयुक्तिः' इत्यत्र, `त्वया नियम्या ननु दिव्यचक्षा' इत्यादौ च निपूर्वनाद्यमेः कथं यत्, अनुपसर्गादिति निषेधादित्यत आह– निपूर्वात्स्यादेवेति। `य' दिति शेषः। कुत इत्यत आह– तेन न तत्रेति। प्रकारान्तरेण समाधत्ते– नियमे साधुरिति वेति। `यमः समुपनिविषु चे'ति निपूर्वाद्यमेर्भावे अप्प्रत्यये नियमशब्दः। नियमे साधुरित्यर्थः `तत्र साधुः' इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इत्यर्थः।

तत्त्वबोधिनी

556 गदमद। व्यत्ययेन पञ्चम्यर्थे सप्तमी। एभ्योऽनुपरुआगेभ्यो यत्स्यात्। ण्यतोऽपवादः। अनुपसर्गे किम् ?। `न नैषधे कार्यमिदं निगाद्य' मिति श्रीहर्षः।

साधुरिति। `यमः समुपनिविषु च' इति वैकल्पिकेऽप्प्रत्यये कृते `तत्र साधुः' इति तद्धितो यदित्यर्थः। यद्यप्यस्मिन्पक्षे `कृत्यानां कर्तरि वा' इत्यस्याऽप्रवृत्तेः कर्तरि तृतीया दुर्लभा तथापि त्वयेति च तेनेति चकरणत्वविवक्षया तृतीयेति स्थितस्य गतिर्बोध्या। केवलाद्यतं कृत्वा निशब्देन समास इत्यपरे। यद्वा `यमोऽपरिवेषणे मि'दिति मतमाश्रित्य `पर्यवसितं नियमय'न्नित्यादाविव मित्त्वं स्वीकृत्य ण्यन्ताद्यद्बोध्यः। अथ वा संज्ञापूर्वकविधेरनित्यत्वाण्ण्यत्येव वृद्धिर्न प्रवृत्तेति दिक्। एवं च वार्तिकप्रयोगोऽप्यन्यथासिद्ध इति तद्बलेननिपूर्वाद्यदिति न कल्पनीयमिति भावः।

Satishji's सूत्र-सूचिः

TBD.